मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 262, कुल 488 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः १७५
श्यान + च्वि, ईत्व √ भू + क्त कर्तरि । सितजलधरच्छेदपुलिनाः—बालुकामय तट के समान उज्ज्वल मेघ-खंडों से युक्त। जलानां धराः जलधराः-तेषां छेदाः । सिताः जलधरच्छेदाः कर्मधारय स० । ते पुलिनानि इव इति सितजल-धरच्छेदपुलिनानि उपमित स० । तानि सन्ति आसाम् इति सितजलधरच्छेद-पुलिन + अच् मत्वर्थे । यह 'दिशः' का विशेषण है। विकचनक्षत्रकुमुदः—विगताः कचाः एषाम् इति विकचानि । तादृशानि नक्षत्राणि । तानि कुमुदानि इव इति विकचनक्षत्रकुमुदानि, तैः । नभस्तः—आकाश से, नदीपक्ष में—श्रावणमास से । स्यन्दन्ते—प्रवाहित हो रही है या फैल रही है । इस श्लोक में श्लेष अलंकार से अनुप्राणित उपमेयोपमा नामक अलंकार है, पाञ्चाली रीति है, प्रसाद गुण है और शिखरिणी छन्द है । शिखरिणी का लक्षण १, १३ मे देखिए ॥ ७ ॥
अपि च—
अपामुद्वृत्तानां निजमुपदिशन्त्या स्थितिपद दधत्या शालीनामवनतिमुदारे सति फले । मयूराणामुग्रं विषमिव हरन्त्या मदमहो कृतः कृत्स्नस्यायं विनय इव लोकस्य शरदा ॥ ८ ॥
**अन्वयः—**अहो ! उद्वृत्तानाम् अपां निजं स्थितिपदम् उपदिशन्त्या शालीनां फले उदारे सति अवनतिं दधत्या मयूराणां विषमिव उग्रं मदं हरन्त्या शरदा कृत्स्नस्य लोकस्य अयं विनयः कृत इव ॥ ८ ॥
**व्याख्या—**अहो—आश्चर्यम्, उद्वृत्तानाम्—उपचितानाम् लङ्घिततटानामिति यावत्, अपां—जलानाम्, निजं—स्वाभाविकं, स्थितिपदं—स्थानम्, उपदिशन्त्या—बोधयन्त्या, शालीनां—धान्यविशेषाणां, फले—प्रसवे, उदारे—परिणते, सति, अवनतिं—नम्रतां, दधत्या धारयन्त्या, मयूराणां—बर्हिणां, विषमिव—गरलमिव, उग्रम्—असह्यम्, मदं—गर्वं, हरन्त्या—अपनयन्त्या, शरदा—शरदृतुना, कृत्स्नस्य—समग्रस्य, लोकस्य—भुवनस्य, अयम्—एषः, विनयः—उपदेशः, कृत इव—विहित इव ॥ ८ ॥
**हिन्दी अनुवाद—**और भी—आश्चर्य है कि तटों का अतिक्रमण करने वाले जलों को स्वाभाविक स्थान का बोध कराती हुई, साठी धानों