भारतकोश
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

पृष्ठ 262, कुल 488 में से

संदर्भ में पढ़ें
पृष्ठ 262

तृतीयोऽङ्कः १७५

श्यान + च्वि, ईत्व √ भू + क्त कर्तरि । सितजलधरच्छेदपुलिनाः—बालुकामय तट के समान उज्ज्वल मेघ-खंडों से युक्त। जलानां धराः जलधराः-तेषां छेदाः । सिताः जलधरच्छेदाः कर्मधारय स० । ते पुलिनानि इव इति सितजल-धरच्छेदपुलिनानि उपमित स० । तानि सन्ति आसाम् इति सितजलधरच्छेद-पुलिन + अच् मत्वर्थे । यह 'दिशः' का विशेषण है। विकचनक्षत्रकुमुदः—विगताः कचाः एषाम् इति विकचानि । तादृशानि नक्षत्राणि । तानि कुमुदानि इव इति विकचनक्षत्रकुमुदानि, तैः । नभस्तः—आकाश से, नदीपक्ष में—श्रावणमास से । स्यन्दन्ते—प्रवाहित हो रही है या फैल रही है । इस श्लोक में श्लेष अलंकार से अनुप्राणित उपमेयोपमा नामक अलंकार है, पाञ्चाली रीति है, प्रसाद गुण है और शिखरिणी छन्द है । शिखरिणी का लक्षण १, १३ मे देखिए ॥ ७ ॥

अपि च—

अपामुद्वृत्तानां निजमुपदिशन्त्या स्थितिपद दधत्या शालीनामवनतिमुदारे सति फले । मयूराणामुग्रं विषमिव हरन्त्या मदमहो कृतः कृत्स्नस्यायं विनय इव लोकस्य शरदा ॥ ८ ॥

**अन्वयः—**अहो ! उद्वृत्तानाम् अपां निजं स्थितिपदम् उपदिशन्त्या शालीनां फले उदारे सति अवनतिं दधत्या मयूराणां विषमिव उग्रं मदं हरन्त्या शरदा कृत्स्नस्य लोकस्य अयं विनयः कृत इव ॥ ८ ॥

**व्याख्या—**अहो—आश्चर्यम्, उद्वृत्तानाम्—उपचितानाम् लङ्घिततटानामिति यावत्, अपां—जलानाम्, निजं—स्वाभाविकं, स्थितिपदं—स्थानम्, उपदिशन्त्या—बोधयन्त्या, शालीनां—धान्यविशेषाणां, फले—प्रसवे, उदारे—परिणते, सति, अवनतिं—नम्रतां, दधत्या धारयन्त्या, मयूराणां—बर्हिणां, विषमिव—गरलमिव, उग्रम्—असह्यम्, मदं—गर्वं, हरन्त्या—अपनयन्त्या, शरदा—शरदृतुना, कृत्स्नस्य—समग्रस्य, लोकस्य—भुवनस्य, अयम्—एषः, विनयः—उपदेशः, कृत इव—विहित इव ॥ ८ ॥

**हिन्दी अनुवाद—**और भी—आश्चर्य है कि तटों का अतिक्रमण करने वाले जलों को स्वाभाविक स्थान का बोध कराती हुई, साठी धानों

मुद्राराक्षसम् (सटीक संस्कृत नाटक) · पृष्ठ 262, कुल 488 में से · BharatKosha