मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 316, कुल 488 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः २३१
अलंकार है। तीसरे और चौथे चरण में अर्थापत्ति अलंकार है। इसमें वसन्ततिलका छन्द है। इस छन्द का लक्षण १, ८ में देखिए ॥ ३३ ॥
चतुर्थोऽङ्कः
[ ततः प्रविशत्यध्वगवेषः पुरुषः । ]
पुरुषः—हीमाणहे हीमाणहे । (आश्चर्यमाश्चर्यम् ।)
जोअणसअं समधिअं को णाम गदागदं इह करेइ ।
अत्थाणगमणगुरुई प्पहुणो अण्णा जइ ण होइ ॥ १ ॥
(योजनशतं समधिकं को नाम गतागतमिह करोति ।
अस्थानगमनगुरुका प्रभोराज्ञा यदि न भवति ॥ १ ॥)
अन्वयः—अस्थानगमनगुरुका प्रभोः आज्ञा यदि न भवति को नाम इह समधिकं योजनशतं गतागतं करोति ? ॥ १ ॥
व्याख्या—अस्थानगमनगुरुका—अस्थाने अनवसरे यत् गमनं तेन गुरुका गुर्वी प्रभोः स्वामिनः, आज्ञा—आदेशः, यदि—चेत्, न भवति—न जायते, ( तदा ) को नाम—न कोऽपीत्यर्थः, इह—अस्मिन् संसारे, समधिकं—संगतम् अधिकं यस्मिन् तत्, योजनशतं—शतयोजनमित्यर्थः, ( व्याप्य ) गतागतं—गतं गमनम् आगतम् आगमनञ्च, करोति—विदधाति ? ॥ १ ॥
हिन्दी अनुवाद—[ तब पथिक-वेष में एक पुरुष प्रवेश करता है । ]
पुरुष—आश्चर्य है, आश्चर्य है ।
असमय में जाने के कारण महान् ( अर्थात् अनुल्लंघनीय ) स्वामी की आज्ञा यदि न हो तो कौन ( व्यक्ति ) यहाँ सौ योजन से भी अधिक दूर जाना-आना करता है ? ॥ १ ॥
टिप्पणी—अध्वगवेषः—पथिकवेशधारी । अध्वानं गच्छति इति अध्वन् √गम् + ड कर्तरि । तस्य वेषः । अध्वगवेष इव वेषः अस्यं इति बहुव्रीहि स० । हीमाणहे—यह आश्चर्यसूचक निपात—अव्यय है। समधिकम्—सङ्गतम्