मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 334, कुल 488 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः
'करभअ ! कुसुमपुरे गच्छिअ भणिदव्वो मम वअणेण तुए वैआलिओ थणकलसो, जहा—'चाणक्कहदएण तेसु तेसुं अण्णाभङ्गेसुं अणुचिट्ठी-अमाणेसुं चन्दउत्तो समुत्तेअणसमत्थेहिं सिलोएहिं उबसिलोइदव्वो' त्ति । (शृणोत्वमात्यः, अस्ति तावदहममात्येनाज्ञप्तो यथा—'करभक ! कुसुमपुरं गत्वा मम वचनेन त्वया भणितव्यो वैतालिकः स्तनकलसः, यथा—'चाणक्यहतकेन तेषु तेषु आज्ञाभङ्गेषु अनुष्ठीयमानेषु चन्द्रगुप्तः समुत्तेजनसमर्थैः श्लोकैरुपश्लोकयितव्यः' इति ।)
राक्षसः—ततस्ततः ?
करभकः—तदो मए पाडलिउत्तं गच्छिअ सुणाविदो अमच्चस्स सन्देसं वैआलिओ थणकलसो । (ततो मया पाटलिपुत्रं गत्वा श्रावितोऽमात्यस्य सन्देशं वैतालिकः स्तनकलसः ।)
राक्षसः—ततस्ततः ?
करभकः—एत्थन्तरे णन्दकुलविणासदुम्मणस्स पोरजणस्स परिओसं सम्मुप्पाअन्तेण चन्दउत्तेण आघोसिदो कुसुमउरे कौमुदीमहोसबो । सोवि चिरआलपबत्तमाणो जणिदपरिओसो अहिमदबन्धुजणसमागमो बिअ, ससिणेहं बहुमाणिदो णअरजणेण । (अत्रान्तरे नन्दकुलविनाशदुर्मनसः पौरजनस्य परितोषं समुत्पादयता चन्द्रगुप्तेनाघोषितः कुसुमपुरे कौमुदीमहोत्सवः । सोऽपि चिरकालप्रवर्तमानो जनितपरितोषः अभिमत-बन्धुजनसमागम इव सस्नेहं बहुमानितो नगरजनेन ।)
हिन्दी अनुवाद—भागुरायण—कुमार की जो आज्ञा ।
राक्षस—भद्र ! क्या वह कार्य सिद्ध हुआ ?
करभक—अमात्य की कृपा से सिद्ध हो गया ।
मलयकेतु—मित्र भागुरायण ! वह कौन कार्य है ?
भागुरायण—कुमार ! दुर्ज्ञेय अमात्य का वृत्तान्त इतने से निश्चित नहीं किया जा सकता ।
राक्षस—विस्तार से सुनना चाहता हूँ ।
करभक—अमात्य सुनें । आपने मुझे आज्ञा दी थी कि—करभक ! कुसुमपुर