मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 336, कुल 488 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः २५३
मलयकेतुः—एवमेतत् ।
राक्षसः—ततस्ततः ?
करभकः—तदो चन्दउत्तेण आणाभङ्गकलुसिदहिअएण सुइरं अमच्चगुणं प्पसंसिअ प्पब्भंसिदो अहिआरादो चाणक्कहदओ । ( ततश्चन्द्रगुप्तेनाज्ञाभङ्गकलुषितहृदयेन सुचिरममात्यगुणं प्रशस्य प्रभ्रंशितोऽधिकारात् चाणक्यहतकः । )
मलयकेतुः—सखे भागुरायण ! गुणप्रशंसया दर्शितश्चन्द्रगुप्तेन राक्षसे भक्तिपक्षपातः ।
भागुरायणः—कुमार ! न तथा गुणप्रशंसया यथा चाणक्यवटोर्निराकरणेन ।
राक्षसः—भद्र ! किमयमेवैकः कौमुदीमहोत्सवप्रतिषेधश्चन्द्रगुप्तस्य चाणक्यं प्रति कोपकारणमुतान्यदप्यस्ति ?
मलयकेतुः—सखे भागुरायण ! चन्द्रगुप्तस्य अपरकोपकारणान्वेषणे किं फलमेष पश्यति ?
भागुरायणः—कुमार ! एतत् फलं पश्यति—'अतिमतिमान् चाणक्यो निष्प्रयोजनमेव किमिति चन्द्रगुप्तं कोपयिष्यति ? न च कृतवेदी चन्द्रगुप्त एतावता गौरवमुल्लङ्घयिष्यति । सर्वथा चाणक्यचन्द्रगुप्तयोः पुष्कलात् कारणाद् यो विश्लेष उत्पद्येत, स आत्यन्तिको भविष्यति' इति ।
हिन्दी अनुवाद—मलयकेतु—यह ऐसा ही है ।
राक्षस—तब क्या हुआ ?
करभक—तब आज्ञा-भंग होने के कारण अप्रसन्न चित्त वाले चन्द्रगुप्त ने बहुत देर तक आपके गुण की प्रशंसा करके चाणक्य को अधिकार से च्युत कर दिया ।
मलयकेतु—मित्र भागुरायण ! गुण की प्रशंसा के द्वारा चन्द्रगुप्त ने राक्षस के प्रति ( अपनी ) भक्ति का पक्षपात दिखलाया ।