मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 440, कुल 488 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः ३६३
तं बिभ्रति याः तादृशीनाम्' । तब यह 'शाखानाम्' का विशेषण होगा । परशुभिः—परान् अन्यान् शृणन्ति हिंसन्ति इति परशवः पर्√शॄ+डु, तैः । क्षताङ्गानाम्—अत्र 'अङ्गगात्रकण्ठेभ्यश्च' इति ङीप् विकल्पः । क्षताङ्गीनाम् । रुजा—√रुज्+क्विप् भावे=रुक्, तया । इस श्लोक मे गम्योत्प्रेक्षा, अपह्नुति, हेतूत्प्रेक्षा और उत्प्रेक्षा अलंकारों की संसृष्टि है । इसमें शिखरिणी छन्द है । इस छन्द का लक्षण १, १३ में देखिए ॥१२॥
एते च तपस्विनः—
अन्तः शरीरपरिशोषमुपाश्रयन्तः
कीटक्षतिस्रुतिभिरस्रमिवोद्वमन्तः
छायावियोगमलिना व्यसने निमग्ना
वृक्षाः श्मशानमुपगन्तुमिव प्रवृत्ताः ॥१३॥
अन्वयः—अन्तः शरीरपरिशोषम् उपाश्रयन्तः कीटक्षतिस्रुतिभिः अस्रम् उद्वमन्तः इव छायावियोगमलिनाः व्यसने निमग्नाः वृक्षाः श्मशानम् उपगन्तुम् प्रवृत्ताः इव ॥१३॥
व्याख्या—अन्तःशरीरपरिशोषम्—अन्तः शरीरस्य अभ्यन्तरदेहस्य परिशोष विशीर्णताम्, उपाश्रयन्तः—प्राप्नुवन्तः, कीटक्षतिस्रुतिभिः—कीटैः कृताः याः क्षतयः रन्ध्राणि ताभ्यः याः स्रुतयः रसरक्षररणानि ताभिः करणैः, अस्रम्—अश्रु, उद्वमन्त इव—मुञ्चन्त इव, छायावियोगमलिनाः—छायायाः अनातपस्य वियोगेन अपगमेन मलिनाः विहतकान्तयः, व्यसने—दुःखे, निमग्नाः—पतिताः, वृक्षाः—पादपाः, श्मशानम्—पितृवनम्, उपगन्तुम्—अभियातुं मर्तुमित्यर्थः, प्रवृत्ताः इव—उद्युक्ता इव ॥१३॥
हिन्दी अनुवाद—ये बेचारे—
शरीर के भीतर शुष्कता को प्राप्त करते हुए, कीडों के किये छेदों से बहने वाले द्रव के रूप में आंसू बहाते हुए, छाया के न होने से हतश्रीक बने हुए और शोक में डूबे हुए वृक्ष मानों श्मशान जाने के लिए तैयार हो रहे हैं ॥१३॥
**टिप्पणी—अन्तःशरीरपरिपोषम्—**जल से न सीचे जाने के कारण वृक्ष