भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 210, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 210

( १८६ ) नायकः- शङ्खचूड़ ! तद् गच्छ, किमेभिः सामोपन्यासैः ? शङ्खचूड़ः- आसन्नः खलु गरुडस्यागमनसमयः । (मातुरग्रतो जानुभ्यां स्थित्वा -) अम्ब ! त्वमपि निवर्त्तस्वेदानीम् । समुत्पस्यामहे मातर्यस्यां यस्यां ¹गतौ वयम् । तस्यां तस्यां प्रियस्रुते ! माता भूयास्त्वमेव नः ॥२०॥ [पादयोः पतति] वृद्धा - (सास्रम्) कहं पच्छिमं से वअणं ? पुत्तअ ! ण क्खु कथं पश्चिममस्य वचनम् ? पुत्रक ! न खलु तुमं उज्झिअ मे पाआ अण्णदो वहंति । इह ज्जेव्व तुए त्वामुज्झित्वा मे पादावन्यतो वहतः । इहैव त्वया सह चिट्ठिसं । सह स्थास्यामि। शङ्खचूड़ः- (उत्थाय) यावदहसध्यदूरे भगवन्तं दक्षिणा- गोकर्णं प्रदक्षिणीकृत्य स्वाम्यादेशमनुतिष्ठामि । [उभौ निष्क्रान्तौ] नायकः-कष्टम् । न सम्पन्न मभिलषितम् तत्कोऽत्राभ्युपायः ? कञ्चुकी- (तरसा प्रविश्य ²- इदं वासोयुगम् । नायकः-[दृष्ट्वा सहर्षमात्मगतम्] दिष्ट्या सिद्धमभिवाञ्छित- मनेनातर्कितोपनतेन ³ रक्तांशुकयुगलेन ।

श्लोक नं०: २०, अन्वयः - मातः ! यस्यां यस्यां गतौ वयं समुत्पस्यामहे तस्यां तस्यां प्रियस्रुते ! त्वम् एव नः माता भूयाः ॥