भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 268, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 268

( २४४ ) गरुडः-- यदाज्ञापयति भगवान् — अज्ञाननिद्राशयितो भवता प्रतिबोधितः । सर्वप्राणिवधदेष विरतोऽद्यप्रभृत्यहम् ॥२६॥ सम्प्रति हि— क्वचिद् द्वीपाकारः पुलिनविपुलैर्भोगनिवहैः १ कृतावर्त्तभ्रान्तिर्वलयितशरीरः क्वचिदपि । व्रजन् कूलात्कूलं क्वचिदपि च सेतुप्रतिसमः समाजो नागानां विहरतु महोदन्वति सुखम् ॥२७॥ अपि च, स्रस्तानापादलम्बाँस्तिमिरचयनिभान्केशहस्तान् वहन्त्यः, सिन्दूरेणेव दिग्धैः २ प्रथमरविकरस्पर्शताम्रैः कपोलैः । आयासेनालसाङ्ग्योऽप्यवगणितरुजः कानने चन्दनानाम्- अस्मिन् गायन्तु रागादुरगयुवतयः कीर्तिमेतां तवैव ॥२८॥ श्लोक न०: २६, अन्वयः-अज्ञाननिद्राशयितो (ऽहं) भवता प्रतिबोधितः । एषः अद्य प्रभृत्यहं सर्वप्राणिवधाद् विरतः । श्लोक न०: २७, अन्वयः- क्वचित् पुलिनविपुलैर्भोगनिवहैः द्वीपाकारः, क्वचिदपि वलयितशरीरः कृतावर्त्तभ्रान्तिः, क्वचिदपि च कूलात्कूलं व्रजन् सेतुप्रतिसमः नागानां समाजः महोदन्वति सुखं विऽहरतु । श्लोक नं०: २८, अन्वयः— स्रस्तानापादलम्बान् तिमिरचयनिभान् केशहस्तान् वहन्त्यः, प्रथम- रविकरस्पर्शताम्रैः सिन्दूरेणेव दिग्धैः कपोलैः, आयासेनाल- साङ्ग्योऽप्यवगणितरुजः, उरगयुवतयः चन्दनानामस्मिन् कानने रागात् तवैव एतां कीर्तिं गायन्तु ।