भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 56, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 56

( २२ ) नायकः- (सविस्मयं विलोक्य) अहो !¹ नु खलु मुदित- मुनिजनप्रविचार्यमाणसन्दिग्ध²वेदवाक्यविस्तरस्य. पठद्बटुजनच्छिद्यमानाद्रार्द्रसमिधस्तापसकुमारिकापूर्य- माणबालवृक्षालवालस्य³प्रशान्तरमणीयता⁴ तपो- वनस्य । इह हि— मधुरमिव वदन्ति स्वागतं भृङ्गनादै- र्नतिमिव⁵ फलनम्रैः कुर्वतेऽमी शिरोभिः । मम ददत इवार्घ्यं पुष्पवृष्टिं किरन्तः कथमतिथिसपर्यां⁶ शिक्षिताश्शाखिनोऽपि ॥ १२ ॥ तन्निवासयोग्यमिदं तपोवनम्। मन्ये भविष्यतीह वसता- मस्माकं परा निर्वृत्तिः⁷ । विदूषकः — (इतस्ततो विलोक्य) भो वयस्स किं क्खु एदे ईसिवलिअ- भो वयस्य किं खल्वेते ईषद्वलित—⁸ कन्धरा णिच्चलमुहावसरंतदरदलिअदब्भकवलाः समुण्णमिद- कन्धरा निश्चलमुखापसरद्दर⁹दलितदर्भकवलाः समुन्नमित श्लोक नं १२ अन्वयः— शाखिनोऽपि भृङ्गनादैः मधुरं स्वागतमिव वदन्ति ; फलनम्रैः शिरोभिः अमी नतिमिव कुर्वते ; पुष्पवृष्टिं किरन्तः मम अर्घ्यमिव ददतः ; कथं (शाखिनोऽपि) अतिथिसपर्यां शिक्षिताः ।

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या) · पृष्ठ 56, कुल 309 में से · BharatKosha