नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 64, कुल 309 में से
संदर्भ में पढ़ें( ३० ) जा एत्तिअं कालं कण्णआअणदुक्करेहिं णिअमोवासणेहिं या एतावन्तं कालं कन्यकाजनदुष्करैर्नियमोपासनैः आराधअन्तीए अज्जवि ण दे पसादं दंसेदि । आराधयन्त्या अद्यापि न ते प्रसादं दर्शयति । ९ क.-भो वअस्स ! कण्णआ क्खु एसा, किं ण पेक्खम्ह ? भो वयस्य ! कन्यका खल्वेषा । किं न प्रेक्षावहे ? – को दोषः । निर्दोषदर्शना हि कन्यका भवन्ति । किन्तु कदाचिदस्मान् दृष्ट्वा बालभावसुलभलज्जासाध्वसान्न चिरमिह तिष्ठेत् । तदनेनैव लताजालान्तरेण पश्यावः ! विदूषकः — एवं करेम्ह । एवं कुर्वः । [उभौ पश्यतः] विदूषकः — (दृष्ट्वा साश्चर्यम्) भो वअस्स ! पेक्ख पेक्ख । अहह अच्चरिअं ! भो वयस्य ! प्रेक्षस्व प्रेक्षस्व । अहह, आश्चर्यम् ! ण केवलं वीणा विण्णाणेणेव्व सुहं करेदि, इमिणा वीणा- न केवलं वीणा¹विज्ञानेनैव सुखं करोति, अनेन वीणा- विण्णाणाणुरूवेण रूवेण वि अच्छीणं सुहं उप्पादेदि । विज्ञानानुरूपेण रूपेणापि अक्ष्णोः सुखमुत्पादयति । का उण एसा ? किं दाव देई ? ओहो णाअकण्णआ ? का पुनरेषा ? किं तावत् देवी ? आहोस्विन् नागकन्यका ? आहो विज्जाहरदारिआ ? आहो सिद्धकुलसंभवेत्ति ? आहोस्वित् विद्याधरदारिका ? आहोस्वित् सिद्धकुलसम्भवेति ?