नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 72, कुल 309 में से
संदर्भ में पढ़ें( ३८ ) नायकः -तनुरियं तरलायतलोचने श्वसितकम्पितपीनघनस्तनि ! श्रममलं¹ तपसैव गता पुनः किमिति संभ्रमधारिणि ! खिद्यते ॥१७॥ नायिका — (अपवार्य) हञ्जे ! अदिसद्धसेण ण सक्कुणोमि एदस्स संमुहे ठादुं । हञ्जे ! अतिसाध्वसेन न शक्नोम्येतस्य सम्मुखे स्थातुम् । (नायकं तिर्यक् सलज्जञ्च पश्यन्ति किञ्चित्परावृत्तमुखी तिष्ठति) चेटी — भद्दिदारिए ! किं एदम् ? भर्तृदारिके ! किमेतत् ? नायिका—हञ्जे ण सक्कुणोमि एदस्स आसण्णे चिट्ठिदुं । हञ्जे न शक्नोम्येतस्यासन्ने स्थातुम् । ता एहि अण्णदो गच्छह्म । तदेहान्यतो गच्छावः । (इत्युत्थातुमच्छिति) विदूषकः — भो ! भाइदि खु एसा । भो ! बिभेति खल्वेषा । मम पठिअविज्जं चित्र मुहुत्तअं धारेमि । मम पठितविद्यामिव मुहूर्त्तं धारयामि । नायकः — को दोषः ? श्लोक नं० १७, अन्वयः— तरलायतलोचने ! श्वसितकम्पितपीनघनस्तनि । इयं (ते) तनुः तपसा एव अलं श्रमम् गता । संभ्रम धारिणि ! किमिति पुनः खिद्यते ?