नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 119, कुल 226 में से
संदर्भ में पढ़ें[सर्गः २ ] जीवातु-मदयन्तिकासहितम् । १०३
क्षिप्रमेव पुनः समागमोऽस्तु । अविसाध्यं कार्यं साधयेत्याह—साधय= सम्पादय; समये=कार्यकाले वयं स्मरणीयाः; अनन्यगामि कार्यं कुर्या इत्यर्थः ॥ हे हंस ! मार्ग में तुम्हारा कल्याण हो; फिर शीघ्र तुम्हारा समागम हो । जाओ, मेरे अभीष्टकार्य को पूरा करो और उपयुक्त समय पर मेरा स्मरण करना ॥ इति तं स विसृज्य धैर्यवान् नृपतिः सूनृतवाग्बृहस्पतिः । अविशद्वनवेश्म विस्मितः श्रुतिलग्नैः कलहंसशंसितैः ॥६३॥ इतीति । धैर्यवान् = उपायलाभात् सधैर्यः [ सूनृतवाग्बृहस्पतिः ] सूनृतवाक् सत्यप्रियवादेषु बृहस्पतिः तथा प्रगल्भ इत्यर्थः । 'सूनृतं च प्रिये सत्यम्' इत्यमरः । स नृपतिः इति = इत्थं तं = हंसं विसृज्य श्रुतिलग्नैः = श्रोत्रप्रविष्टैः [ कलहंसशंसितैः ] कलहंसस्य शंसितैर्विस्मितः सन् वनवेश्म = वनविहार गृहम् अविशत् ॥६३॥ कान में पड़े हुए, राजहंस के कहे हुए वाक्यों से विस्मित हो, सत्य तथा प्रिय बात कहने में बृहस्पति के समान राजा नल ने—इस प्रकार उस हंस को विदा करके-(दमयन्ती के मिलन पर) धैर्यवान् हो, उद्यान-भवन में प्रवेश किया ॥ अथ भीमसुतावलोकनैः सफलं कर्तुमहस्तदेव सः । क्षितिमण्डलमण्डनायितं नगरं कुण्डिनमण्डजो ययौ ॥६४॥ अथेति । अथ सोऽण्डजः = हंसः तत् एव अहः [भीमसुतावलोकनैः] भीमसुतायाः भैम्याः अवलोकनैः, सफलं कर्तुं तस्मिन्नेव दिने, तां द्रष्टुमित्यर्थः । [क्षितिमण्डलमण्डनायितं] क्षितिमण्डलस्य मण्डनायितमलङ्कारभूतं कुण्डिनं = कुण्डिनाख्यं नगरं ययौ ॥६४॥ तत्पश्चात् वह हंस—भीमराजकुमारी दमयन्ती के दर्शन से (अपने नेत्रों को) सफल बनाने के लिए, भूमण्डल के अलङ्कार के समान कुण्डिनपुर को, उसी दिन रवाना हुआ ॥६४॥ प्रथमं पथि लोचनातिथिं पथिकप्रार्थितसिद्धिशंसिनम् । कलशं जलसम्भृतं पुरः कलहंसः कलयाम्बभूव सः ॥६५॥ अथ श्लोकत्रयेण शुभनिमित्तान्याह-प्रथममित्यादिना। स कलहंसः प्रथमम् = आदौ पथि = मार्गे लोचनातिथिं = अक्षिप्रियं, पथिकानां प्रस्थातृणां, प्रार्थितस्य