भारतकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 28, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 28

१२ नैषधचरितम् । [ प्रथमः प्रसन्नतापूर्वक अपना समय व्यतीत करते हुए, प्रतिदिन उदय ( १ उन्नति २ आविर्भाव ) के समान प्रतीत होते थे ॥ १७ ॥ अधोविधानात् कमलप्रवालयोः शिरःसु धानादखिलक्ष्माभुजाम् । पुरेदमूर्ध्वं भवतीति वेधसा पदं किमस्याङ्कितमूर्ध्वरेखया ॥१८॥ अध इति । कमलप्रवालयोः = पद्मपल्लवयोः कर्मभूतयोः । अधोविधानात् = अधःकरणात्, न्यक्करणादिति यावत् । तथा, [ अखिलक्ष्माभुजां ] अखिलानां सर्वेषां, क्ष्माभुजां प्रतिकूलवर्तिनां राज्ञां । शिरःसु, धानात् = निधानात् । इदम्= अस्य = नलस्य पदम्, ऊर्ध्वम् = उत्कृष्टम् ऊर्ध्वस्थितञ्च, पुरा भवति = भविष्य- तीत्यर्थः । 'यावत् पुरा निपातयोर्लट्' इति पुराशब्दयोगात् भविष्यदर्थे लट् । इति= इत्थं मत्वा, इति शेषः । गम्यमानार्थत्वादप्रयोगः । वेधसा = विधात्रा कर्त्रा, ऊर्ध्व- रेखया, अङ्कितं = चिह्नितं, किम् ? इत्युत्प्रेक्षा । ऊर्ध्वरेखाङ्कितपदः सर्वोत्कर्षं भजेत् पुमानिति सामुद्रिकाः । सोन्दर्यसुलक्षणाभ्यां युक्तमस्य पदमिति भावः ॥१८॥ 'ये भविष्य में ऊर्ध्व ( सबके ऊपर, सर्वोच्च ) रहेंगे-'क्या यही समझकर विधाता ने उनके चरण में ऊर्ध्वरेखा अङ्कित की; क्योंकि वह चरण-कमल और प्रवाल को-नीचा दिखाता (तिरस्कृत करता) था और अखिल राजाओं के शिर पर विराजमान रहता था ॥ १८ ॥ जगज्जयं तेन च कोशमक्षयं प्रणीतवान् शैशवशेषवानयम् । सखा रतीशस्य ऋतुर्यथा वनं वपुस्तथालिङ्गदथास्य यौवनम् ॥१९॥ अथ अस्य यौवनागमं क्रमेण वर्णयति-जगदित्यादिभिः । अयं = नलः, शैशवशेषवान् = ईषदवशिष्टशैशव एवेत्यर्थः । [ जगज्जयं ] जगतां जयं, तेन च=जयेनेत्यर्थः । कोषं = धनजातम्, अक्षयं प्रणीतवान् = कृतवान् । अथ = अनन्तरं, रतीशस्य=कामस्य, सखा, ऋतुः = वसन्त इत्यर्थः । वन यथा, यौवनम् अस्य=नलस्य, वपुः = शरीरं, तथा, आलिङ्गत् = संश्लिष्टवत् , संक्रान्त- मित्यर्थः । उपमालङ्कारः ॥ १६ ॥ उन्होंने बाल्यावस्था को पार कर, जगद्विजय कर लिया और उस ( विजय ) से अपना अक्षय राजकोष भी पूर्ण कर लिया । फिर, यौवन ने उनके शरीर का इस तरह आलिङ्गन किया-जैसे रति-नाथ ( कामदेव ) का मित्र वसन्त वन को आलिङ्गन करता है ॥ १९ ॥

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक) · पृष्ठ 28, कुल 226 में से · BharatKosha