नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 85, कुल 226 में से
संदर्भ में पढ़ेंसर्गः १ ] जीवातु·दमयन्तिकासहितम् । ६९ पक्षिणः इतो गच्छतो गतान् विलोकयन्त्यास्तव स क्षणः = स कालः, कीदृक् भविता = भविष्यति, वज्रपातप्राय इति भावः । कर्त्तरि लुट् ॥१३७॥ 'मेरा प्रियतम कितनी दूर है और मेरे लिए सन्देश तथा मृणाल भेजने में उसने बड़ी देर कर दी' — इस प्रकार हे प्यारी ! जब तू ( चारा लेकर लौटे हुए अन्य) पक्षियों से पूछेगी और ( तब कुछ न कहकर, केवल मेरे शोक में) पक्षियों को रोता हुआ देखेगी तो तेरा वह समय कितने कष्ट से बीतेगा ? ॥१३७॥ कथं विधातमयि पाणिपङ्कजात्तव प्रियाशैत्यमृदुत्वशिल्पिनः । वियोक्ष्यसे वल्लभयेति निर्गता लिपिर्ललाटन्तपनिष्ठुराक्षरा ॥१३८॥ कथमिति । हे विधातः ! प्रियायाः वरटायाः शैत्यमृदुत्वशिल्पिनः = तादृक् तदङ्गशैत्यमार्दवनिर्माणकात् तब पाणिपङ्कजात् = पङ्कजमृदुशिशिरात् पाणे- रित्यर्थः । मयि विषये 'वल्लभया सह वियोक्ष्यसे' इति एवंतरूपा अत एव [ललाटन्तपनिष्ठुराक्षरा ] ललाटं तपन्ति दहन्तीति ललाटन्तपानि । 'सूर्यं- ललाटयोर्दृशितपोः' इति खल्प्रत्ययः । 'अरुर्द्विषत्' इत्यादिना मुमागमः । तानि निष्ठुराणि कर्ककठोराणि, चाक्षराणि यस्याः सा । लिपिः = अक्षरविन्यासः, कथं निर्गता = निःस्रुता ? । अत्र कारणात् विरुद्धकार्योत्पत्तिकथनाद्विषमालङ्कारभेदः । 'विरुद्धकार्यस्योत्पत्तिर्यत्रानर्थस्य भावयेत् । विरूपघटना वा स्याद्विषमालङ्कृतिर्मता' इति॥ हे विधाता ! मेरी पत्नी के शीतल ( अङ्ग ) तथा कोमल ( स्वभाव ) बनाने वाले आपके इन्हीं कर-कमलों द्वारा — 'प्राणवल्लभा के साथ तेरा वियोग होगा'— यह ( अङ्ग-शीतलता के विरुद्ध ) उत्तमाङ्ग-शिर में ताप-जनक और ( मृदुत्व के प्रतिकूल ) निष्ठुर उक्ति मेरे माथे में—कैसे लिखी गयी ? ॥१३८॥ अथ स्वयूथ्यैरशनिक्षतोपमं ममाद्य वृत्तान्तमिमं बतोदिता । मुखानि लोलाक्षि ! दिशामसंशयं दशानि शून्यानि विलोकयिष्यसि ॥१३९॥ अद्येति — अद्य = अस्मिन् दिने । 'सद्यः परुत्' इत्यादिना निपातः । स्वयूथ्यैः = स्वसहचरैर्हंसैः कर्तृभिः अशनिक्षतोपमं = वज्रप्रहारप्रायं मम इमं वृत्तान्तम् = अनर्थवार्त्ता उदिता = उक्ता सती । वदेब्रु'अर्थस्य दुहादित्वादप्रधाने कर्मणि क्तः । 'वचिस्वपि'इत्यादिना सम्प्रसारणम् । अयि लोलाक्षि ! चञ्चलनेत्रे दश अपि दिशां मुखानि शून्यानि = आलम्ब्य लक्ष्याकाराणि विलोकयिष्यसि, असंशयं = सन्देहो नास्तीत्यर्थः । अर्थाभावेऽव्ययीभावः । बत इति खेदे ॥१३९॥