नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 104, कुल 258 में से
संदर्भ में पढ़ें८६ नलचम्पूः । समपद्यन्त दश दिशः। 'मा स्म पुनरस्मद्गुणानेषापहार्षीत्' इत्यपहृतैकै- कसारगुणाः सभया नमस्यन्त इव तस्यै कुसुमाञ्जलिममुञ्चँश्चेन्द्रादयो देवाः। स्वकान्तिसर्वस्वापहारभयादिव दिवि ननृतुरप्सरसः। 'किमस्याः समं समुत्पन्नमन्यदपि कन्यारत्नम्' इत्यन्विष्यन्त इव परितः परि- बभ्रमुः सुरभयः समाः समीराणाः ॥ क ॥ किं बहुना । अमन्दानन्दनिष्यन्दमपास्तान्यक्रियाक्रमम् । जगज्जन्मोत्सवे तस्याः पीतामृतमिवाभवत् ॥ २५ ॥ अथ बहोः कालादनुरूपप्रौढप्रहरणप्राप्तिप्रीतहृदयेनास्फोटितमिव सकलजगद्विजयव्यवसायसाहसिकेन कुसुमसायकेन, चिरादुचिताश्र- यलाभमुदितमनसा स्फूर्जितमिव शृङ्गाररसेन, शुचिकाशकुसुमहास्येन योग्यसहकारिकारणोपलम्भपूर्णमनोरथेन वल्गितमिव वसन्तमासेन, निजकर्मणः सफलतां मन्यमानेनोच्छ्वसितमिव मलयानिलने, चिर- कालोपलब्धश्लाघ्याधारतया हसितमिव रूपसंपदा, विकँसितमिव लावण्यलक्ष्म्या, प्रनृत्तमिव समस्तस्त्रीलक्षणाधिदेवतया, कलकलित- मिव कान्तिकलापश्रिया ॥ ख ॥ किं बहुना । सर्गव्यापारखिन्नस्य बहोः कालाद्विधेरपि । आसीदिमां विनिर्माय श्लाघ्यः शिल्पपरिश्रमः ॥ २६ ॥ एवमस्याः सततविस्तीर्णस्वर्णपूर्णपात्रपूजितपूज्यद्विजन्मनि संपन्ने नामकर्मसमये सँमान्य मान्यजनं जनेश्वरो वरप्रदानमनुस्मृत्य दमन- कमुनेः 'दमयन्ती' इति नाम प्रतिष्ठितवान् ॥ ग ॥ क्रमेण च प्रचुरौमृतसंसिक्ता इव सुकुमाराः प्रसर्तुमारभन्ताङ्गाव- यवपल्लवाः, चकार च चञ्चच्चामीकररुचिरुचिराङ्गणमणिवेदिकासु कैश्चिद्दिवसैरनुच्चचरणप्रचारचारुचापत्यलीलाः, सहासमकरोत्परिजनं जनयन्ती बांलकेलीः, स्वच्छन्दमानन्दयांचकार पितरं तैरङ्गभङ्गीँरङ्गि- काश्च भवन्ति ॥ क ॥ १ 'प्रवर्धमाना शश्वदस्मात्'. २ 'इन्द्रादयः'. ३ 'स्वविकासहासयोग्य'. ४ 'आधारया'. ५ 'विलसितमिव'. ६ 'सामान्यजनो जनेश्वरः'. ७ 'अमृतरससंसिक्ताः'. ८ 'बालके- लिम्'. ९ 'तरत्तरङ्ग'. १० 'रिङ्गितैन'.