भारतकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 126, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 126

कस्य न पराभूतिर्भवति । कस्य नापूर्व यशः समुच्छलति ॥ क ॥ किमतोऽप्यस्याः परमुच्यते ॥ ख ॥ यादवप्रियं शार्दूलमिव शूरं महत्तरं भयान्नोपसर्पति । सुनयनादे- वरं सिंहमिव बलभद्रं दृष्ट्वा प्रपलायते । न वसुदेवेऽपि चक्षुः पातयति ॥ ग ॥ केवलमनवरतशिक्षितवैदग्ध्यकलापराधात्मिकात्रपापरापरिहृत्य गु- णिनो गुरून्परपुरुषे मायाविनि कृतकेशिवधे धृतमन्दरागे रागं बध्नाति ॥ घ ॥

कस्येति ॥ क्लीवभागस्य पराभूतिः पराभवः। प्रतिषेधवाची अः पूर्वो यस्माद्य- शःशब्दस्वरूपात्तदपूर्वं यशोऽयश इत्यर्थः । पक्षे परा प्रकृष्टा भूतिरुन्नतिः । अपूर्व- मुत्कृष्टं यशः ॥ क ॥ खस्थावस्थायां स्त्रैणानि वञ्चनाकूटराजपराभवादीन्यभिधाय संप्रति परं परि- णामे यत्स्यात्तदाह—यादवेति ॥ दवमुपतापं प्रीणाति दवप्रियं रागणम् । अथवा दुनोतीति दवः कुतश्चिद्वैगुण्यादुपतापजनको यः प्रियः कान्तस्तं शूरं वि- क्रान्तं महत्तरं वृद्धं भयान्न समीपे व्रजति । अगमने वार्धकं भये च शूरत्वं हेतुः । शार्दूलपक्षे दवः काननम् । सुनयेति नयप्रवर्तनप्रोत्साहनायामामन्त्रणम् । नादे शब्दे, वरं प्रियंवदं, बलेन शक्त्या भद्रं, दृष्ट्वापि प्रणश्यति । प्रियमिति शेषः । सिंहस्तु नादे शब्दे वरः सिंहनादस्य प्रतीतत्वात् । तथा वसुदे धनप्रदे । अवे रक्षकेऽपि चक्षुर्नयनं न पातयति । संमुखमपि नालोकत इत्यर्थः । यदिवा वेपते- ऽवश्यमिति वेपीति चक्षुर्विशेषणम् । पक्षे यादवा यदुवंश्यास्तेषां प्रियः शूरनामा- द्यपुरुषस्तं भयात्स्थितिलङ्घनलक्षणात् नोपसर्पति न तत्समीपे व्रजति । एतेन श्वशुरो वध्वा न स्पृश्यते इति स्थितिरुक्ता । शोभने नयने यस्याः सा देवरं गदनामानं कृष्णस्य गदाग्रजत्वात् । बलभद्रमपि ज्येष्ठसंबन्धेन प्रतीतं वीक्ष्य प्रकर्षेण पलायते स्पर्शभयात् । तथा वसुदेवः कृष्णस्य पिता ॥ ग ॥ यदीदृशे परमोपकारिणि न प्रेमवती स्त्री, तदान्यत्र कस्मिन्नपि गुणिणि प्रेम- बन्धं विधास्यतीति निरस्यन्नाह—केवलेति ॥ नूयते इति नवं प्रशस्यं न नवम- नवमप्रशस्यं रतं यस्याः । केवलं बीजक्षयहेतुत्वात् । नहि तस्याः संततिः। रतं च संतत्या सफलम् । तथा विशेषेण दग्धो विदग्धः। तस्य भावो वैदग्ध्यं संतापस्तस्य कला वैदग्ध्यकला शिक्षिता यया । पश्चात्कर्मधारयः । अपराधा एवात्मा स्वरूपं यस्याः। तथा न त्रायते नरकाद् अत्रं तथाभूतं यत्पापं कमप्युपसर्गं राति ददाती- त्यत्रपापरा । गुरून् पित्रादीन् गुणिनः सगुणांश्च ग्राह्यपुरुषान् परिहृत्य परस्याः पुरुषेऽन्यनारीकान्ते मायाविनि कापटिके कृतके कृत्रिमे अशिवमकल्याणं दधाती-

१ 'गदमिव'. २ 'दृष्ट्वापि'. ३ 'पलायते'.

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास) · पृष्ठ 126, कुल 258 में से · BharatKosha