नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 177, कुल 258 में से
संदर्भ में पढ़ेंपञ्चम उच्छ्वासः । १५७ अपि च । इह चरति चकोरः कोरकं पङ्कजाना- मिह चलदलिचक्राच्चक्रवाको बिभेति । इह रमयति जीवंजीवको जीवितेशा- मिह वहति विकारं हारि हारीतकोऽपि ॥ ७३ ॥ एवमसौ निषधेश्वरः श्रुतशीलेन प्रज्ञापूर्वमपररमणीयप्रदेशान्तरद- र्शनव्याजेनान्तरितशवरसुन्दरीदिदृक्षाग्रहो गृहान्प्रति प्रत्यावृत्तः ॥क॥ चिन्तितवांश्च 'कथं नु सा दमयन्ती पुरंदरप्रमुखेषु लोकपालेष्वर्थिषु मया मनु- ष्यजन्मना लब्धव्येति । निवारयिष्यन्ति च तां खलु दिव्यसंबन्धा- र्थिनो बान्धवाः । तत्किमिह शरणम्' इति विमुक्तदीर्घनिःसहनिःश्वा- समसकृच्चिन्तयति राजनि 'राजन्, रामाजनः पद्म इव वारितः सुत- रां प्रवर्तते । नालमस्य दीर्घमनुरक्तस्य जायतेऽपरागो नाप्यलीकाभिनि- वेशोऽस्य हीयते । किंचान्यदन्यपरिग्रहवर्तिनीनामपि स्त्रीणामन्यत्रापि रागाग्रहो भवति । यतः पश्य वरुणप्रतिग्रहेऽपि प्रतीचियं मयि रागि- णी भविष्यति' इत्येवमिममाश्वासयन्निव भगवान्भानुरुत्तुङ्गतशिख- इह चरतीति ॥ प्रतिष्टमानभृङ्गवृन्दाच्चक्रवाको बिभेतीति तपस्विनीत्रान्वेति शेषः । जीवंजीवकः पक्षी जीवितेशां प्रियां रमयतीति संबन्धः ॥ ७३ ॥ कथं नु सेति ॥ इन्द्रादिवरेषु सत्सु मयि विषये कीदृगनुरागः, बन्धवो- ऽप्येनां दिव्यसंबन्धार्थित्वात्तेष्वेव प्रोत्साहयिष्यन्ति, इति चिन्तयति राज्ञि शनैः क्रमे- णाम्बरादवतीर्य भगवान्भानुः . पश्चिमामगात् । किं कुर्वन् । इमं नृपमित्यमुना प्रकारेणाश्वासयन्निव । तमेव प्रकारमाह-अहो राजंस्त्वया चेतसि नैतच्चिन्तनीयम् यद्दिव्यसंबन्धार्थिनो बन्धव एतां निवारयिष्यन्तीति तदेषास्मत्तो विरहतीति । यतो रामाजनो वारितो निषिद्धोऽतीव प्रवर्तते । तथाऽस्य स्त्रीजनस्य दीर्घमनुरक्तस्य बहुकालं सानुरागस्य सतोऽलमप्यर्थे न रागापायः स्यात् । तथास्यालीकोऽप्यभिनि- वेशो न हीयते । किं पुनर्यादृक्तव्यभिनिवेशः । यथा पद्मोऽब्जं वारितो जला- त्प्रवर्तते । तथास्य रक्तस्य सतो नालं काण्डं दीर्घमनु सह परागो मकरन्दः स्यात् । तथाली भृङ्गी कं जलं तयोरभिनिवेशः प्रवेशः सोऽप्यस्य न हीयते न हीनः स्यात् । किं चान्यदुच्यते । स्वीकृतानामपि स्त्रीणां पुरुषान्तरे रागानुबन्धः । यस्मात्संप्र- १ 'कथं सा दम'. २ 'स्यात्'. ३ 'वरुणपरिग्रहोऽपि'. ४ 'मय्यनुरागिणी'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA