नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 179, कुल 258 में से
संदर्भ में पढ़ेंपञ्चम उच्छ्वासः । १५९ अथ क्रमेण गगनमन्दाकिनीतीरतापसैर्विकीर्यमाणेषु¹ संध्यार्घ्याञ्ज- लिजलविन्दुबुद्बुदेष्विव किंचिदुन्मीलत्सु विरलतरतारास्तवकेषु², वासर- विरामवादितवाद्येष्वमरसदनेषु, दह्यमानबहलधूपधूममञ्जरीष्विव वि- यति विहरन्तीषु तनुतिमिरवल्लरीषु, स्वप॑त्पतत्रिकुलकोलाहलेन³ वासार्थि- श्रान्तागताध्वगस्वागतालापमिव कुर्वाणासु वनराजिषु, अन्यत्र परिभ्र- मणपरिहारार्थमिव पद्मिनीनां कोशपानमाचरत्सु चञ्चलचञ्चरीकेषु, रत्युत्सवोत्साहावेशमहामन्त्राक्षरेष्विव श्रूयमाणेषु महोसरित्कूलकुला-⁴ यनिलीनजलकुक्कुटकुहरितेषु, रामायणव्यतिकरेष्विव मन्दोदरीप्रहस्त- प्रबोधितोत्सिक्तदशाननेषु संध्याप्रदीपेषु जाते जरत्कुम्भकारकुक्कुट- कुटुम्ब॑पक्षपिच्छविच्छा ये⁵ मनाक्तमोविद्धे संध्यारागे राजा विषाद्- विस्मृतसंध्याह्निकः परिजनानुबन्धात्संध्यां ववन्दे ॥ क ॥ ततश्च क्रमेण रजनिमवनिनाथः सांध्यकर्मावसाने हरचरणसरोजद्वन्द्वसेवां विधाय । मृदु कलितविपञ्चीपञ्चमप्रायगीत- श्रवणसुखविनोदैस्तां स तस्मिन्ननैषीत् ॥ ७७ ॥ इति श्रीत्रिविक्रमभट्टविरचितायां दमयन्तीकथायां हरचरणसरो- जाङ्काया पञ्चम उच्छ्वासः समाप्तः ॥ काष्ठ्यानि हस्तपादादीनामस्थ्याभरणानि कलयता युञ्जानेन किमु न्यस्तम् । किम्बि- ति वितर्के । किंवा संध्यैव या वधूस्तस्याः संबन्धिनी कौङ्कुमी शुक्तिर्विपरीतमधो- मुखी लुठिता । एवमित्थं शङ्कामुत्पादयत्समुद्रेऽर्धममार्कबिम्बं जयत्यधुना ॥ ७६॥ अथेति । कोशः कणिका शपथविशेषश्च । वयमन्यत्र न यास्याम इत्यर्थे पद्मि- नीनां समीपे कोशयानं कुर्वत्सु भृङ्गविलासिषु । क्षामोदरीप्रकृष्टपाणिज्वलिततैल- सिक्तवर्तिमुखेषु दीपेषु । रामायणसंपर्केषु तु मन्दोदरीनाम्न्या पत्न्या प्रहस्तेन सेनान्या प्रकर्षेण बोधित उत्सिक्तः उद्रिक्तः सन् दशाननो रावणो येषु तथा- भूतेषु । कुम्भकारः कुक्कुटः पक्षिविशेषः ॥ क ॥ इति विषमपदप्रकाशमेतं दमयन्त्यास्तनुते स्म चण्डपालः । शिशुमतिलतिकाविकासचैत्रं चतुरमतिस्फुटभित्तिचारुचित्रम् ॥ इति चण्डपालविरचिते दमयन्तीकथाविवरणे पञ्चम उच्छ्वासः समाप्तः ॥ १ 'विकीर्णेषु'. २ 'विचलं'. ३ 'स्वपतत्पतत्रि'; 'आपतत्पतत्रि'. ४ 'महेति नास्ति'. ५ 'कुटुम्बपिच्छच्छाये'.