नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 18, कुल 258 में से
संदर्भ में पढ़ें४ नलचम्पूः । अक्षमालाप्रवृत्तिज्ञा कुशासनपरिग्रहा । ब्राह्मीव दौर्जनी संसद्वन्दनीया समेखला ॥ ७ ॥ रोहणं सूक्तरत्नानां वृन्दं वन्दे विपश्चिताम् । यन्मध्यपतितो नीचः काचोऽप्युच्चैर्मणीयते ॥ ८ ॥ अत्रिजातस्य या मूर्तिः शशिनः सज्जनस्य च । क्व सा वै रात्रिजातस्य तमसो दुर्जनस्य च ॥ ९ ॥ निश्चितं ससुरः कोऽपि न कुलीनः समेऽमतिः । सर्वथासुरसंबद्धं काव्यं यो नाभिनन्दति ॥ १० ॥ चरणक्षेपेऽनिपुणाः । तथा जनन्या मातृ रागहेतवोऽनुरागकारणम् । तथा वही- र्लीला निष्ठीवनजलानि पिबन्तीति बहुलालापाः । यद्वा बह्व्यो लाला अप्सुरूपा येषु ॥ 'ऋक्पूर-' इति सूत्रेण समासान्तः ॥ ६ ॥ कारणं विनापि केचित्परोत्कर्षमसहिष्णवः । ततस्तानेव क्षुद्रान्काव्यप्रवृत्तिभङ्ग- हेतुञ्छब्दमात्रेण गौरवयन्नाह—अक्षेति ॥ दुष्टानां कृत्याकृत्यभव्याभव्यविशेषवि- वेकविकलानां जनानांमियं दौर्जनी संसद्सभा वन्दनीया नमस्कार्येत्युपहासवाक्य- म् । श्लेषतस्तु वन्दे गृसौ करणीया वन्दनीया । केव । ब्रह्मणां विप्राणामियं ब्राह्मी द्विजसभेव । यथा द्विजसभा वन्यते तथा दुर्जनसंसदपि वन्या । किंभूता दौर्जनी । अक्षमया रुषा संभाषणस्य वृत्तिं जानाति कोपोल्लापयुग्वाक्प्रसरा । तथा कुशासनस्य कुत्सितशिक्षणस्य स्वीकारो यस्याः । तथा समे साधावपि खला प्रतिपक्षभूता । द्विजसभा लक्षमालाया भ्रमणं जानाति या । तथा दर्भासनस्य स्वीकारो यस्याः । तथा मेखलया मौञ्ज्या सहिता ॥ ७ ॥ रोहणमिति ॥ सुभाषितान्येव रत्नानि तेषां प्रशस्तरत्नानां वा रोहणमुत्पत्ति- स्थानं माणिक्यशैलो वा । 'कच बन्धे' कच्यन्तेऽर्था अनेनास्मिन्वा काचः प्रबन्धः क्षारमृद्विकारश्च । विपश्चितो ह्येतादृशमपि प्रबन्धं व्याख्यानप्रागल्भ्यादनुगृह्योत्कर्षं लम्भयन्ति ॥ ८ ॥ आस्तां सज्जनदुर्जनयोः शीलेन साम्यम् । यावन्मूर्त्यापि महदन्तरमिति निरूप- यन्नाह—अत्रीति ॥ अत्रिमुनिजातस्य शशाङ्कस्य न त्रिभिर्जातस्य सज्जनस्य च या मूर्तिः सर्वाभीष्टा सा वै स्फुटं रात्रिजातस्य तमसस्त्रिजातस्य दुर्जनस्य च क्व । यतो दुर्जनस्य वैरा वैरप्रधाना । सज्जनस्य त्ववैरा ॥ ९ ॥ निश्चितमिति ॥ सुष्ठु रसाः शृङ्गारादयो यत्र तथा बद्धं रचितं काव्यं ग्रन्थं यो नाभिनन्दति स निश्चितं ध्रुवं ससुरो मद्यपः कोऽपि । नच कुलीनः नाभि- जातः । सर्वथा समे साधावमतिः । असुरैः संबद्धं मिलितं काव्यं भृगुं यो न नन्दति स सुरो देवः कोऽपि । तथा न कौ भूम्यां लीन आश्लिष्टः । स्वर्ग एव CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA