नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 181, कुल 258 में से
संदर्भ में पढ़ेंषष्ठ उच्छ्वासः । १६१ अन्तर्विष्णुविरञ्चयोरिव मनाग्लिङ्गोद्भवभ्रान्तिकृ- त्तेजः पाण्डुरपिञ्जरं च किमपि श्यामं च तद्वोऽवतात् ॥२॥ अनन्तरमुत्तिष्ठतोत्तिष्ठतानयत गजवाजिंवेगसरीः, संयोजयत शक- टानि, वेष्टयत पटकुटीः, मुकुलयत मण्डपिकाः, संवृणुत काण्डपटान्, उन्मूलयत कीलकान्, उद्वहत वेगाद्वहनीयभाण्डम्, भारयत करभ- कलभान्, उत्क्षिपत क्षीणोक्षकान्, उत्तरत सरितम्, अपसरत पुरतः, कुरुत संचारसहं मार्गम्, इत्यनेकविधप्रयाणाकुललोककोलाहले समु- च्छलति, नदत्सु प्रस्थानवादित्रेषु, समुत्थाय नरपतिरावश्यकशौचाव- साने नर्मदाम्भोभिषेकपूततनुरॆनुवन्द्य सांध्यविधिम्, अधिकृत्य भग- वन्तमुदयगिरिशिरःशिखरभाजं भास्करम्, इमं श्लोकमपठत् ॥ क ॥ 'जयत्यम्भोजिनीबन्धुर्बन्धूकारुणरश्मिकः । वैद्रुमो वासरारम्भकुम्भः पल्लववानिव' ॥ ३ ॥ अभ्यर्च्य च पञ्चोपचारैः सुरासुरगुरुं गौरीपतिं तत्प्रियस्य भगवतो नारायणस्यापि वाञ्छितार्थसिद्धये स्तुतिमकरोत् ॥ ख ॥ 'जयत्युदधिनिर्गतस्मरविलोscreen... 'जयत्युदधिनिर्गतस्मरविलोscreenललक्ष्मीर्लस- द्विलासरसमन्थरस्फुटकटाक्षलक्षीकृतः । अमन्दरयमन्दरभ्रमणघृष्टहेमाङ्गदः सुरारिवधनाटकप्रथमसूत्रधारो हरिः ॥ ४ ॥ स्रष्टा, तमः श्यामं तदेव च हरः, एतत्रयीमयश्च रविरित्यागमिकसमयः । तदु- क्तम्—'सत्वं शुभ्रं स हरिर्लोहितपीतं रजः स जगत्कर्ता । कृष्णं तु तमः स भवो भानुश्चैतत्रयीमूर्तिः' । अभिधानकारोऽप्याह—'द्वादशात्मा त्रयीतनुः' । एतेन पाण्डु तेज इत्युक्ते सत्त्वस्य, पिञ्जरमित्युक्ते रजसः, श्याममित्युक्ते तमः प्रतीति- रीति । ततश्च तमोन्विताया अपाच्या अरुणाान्वितायाश्च प्राच्या मध्ये मनागीप- ल्लक्ष्यं किमप्यद्भुतवैभवं तदुत्कृष्टं पाण्डु पिञ्जरं श्यामं च तेजोऽर्थात् सत्वरजस्त- मस्त्रयीमयं त्रयीतनुलक्षणं वो युष्मानवतु । अमुमेवार्थं सत्वरजस्तमसां संज्ञान्तरेण विष्णुविरञ्चिलिङ्गोद्भव लक्षणेन द्रढयन्नाह—अन्तरित्यादि । 'पुरा स्वमाहात्म्यार्थं विवदमानयोर्द्रुहिणनारायणयोः शिवेन स्वस्य लिङ्गोद्भवस्योर्ध्वाधोमानविज्ञानं मह- त्वहेतुः पण उक्तः' इत्यागमः ॥ २ ॥ अनन्तरमिति ॥ वेगसरी बेसरी । काण्डपटो गुणलयनी ॥ क ॥ जयत्युदेति ॥ सुरारिवधनाटकस्य प्रथमे प्रस्तावनायां सूत्रधारः ॥ ४ ॥ १ 'वेसरी'. २ 'मात्रं'. ३ 'कर्माव'. ४ 'अनुबन्ध्य'. ५ 'तार्थी सिद्धये'. ६ 'बलद्वि'. ७ 'अथमिश्रष्ट'.