नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 186, कुल 258 में से
संदर्भ में पढ़ेंर्शा वीरुत्, इयं संनिहितमधुदानवापि हरिप्रिया वंशजालिः, इयं कृ- तमातङ्गसङ्गापि न परिहृता द्विजैः सल्लकीसंततिः, इमे च केचित्स- शिखण्डिनो महाद्रुपदाः, केऽपि विच्छिन्नकीचकवंशा वृकोदराः, के- चित्सपुण्डरीकाक्षाः पाण्डुसंतानकाः, केऽप्युद्धृतभुवोमहावराहाः, के- प्युत्कृष्टसुरभिश्रीद्रुमावलिहरिकराकृष्टपन्नगनेत्राः स्फुरन्मणिभित्तयोऽ- मन्दरागाः, केऽपि सस्थाणवो दुर्गाश्रयाः श्रूयमाणगजवदनचीत्काराः सगुहाः कैलासकूटायमानाः सेव्याः खल्वमी विन्ध्यस्कन्धसंधिसा- नवः' इति मन्त्रिसूनुना श्रुतशीलेन सह विहितविदग्धालपः, कयापि वेलया कमप्यध्वानमतिक्रम्य काप्यापरिमितपतन्निर्झरजलतुषारस्पर्श- मञ्जरितपादपपुष्पपरिमलमिलन्मधुकरझङ्कारहारिणि रममाणशबरमि- थुनसंमर्दमृदितामन्दमृदुशाद्वले जलस्थलीप्रदेशे श्रान्तसैनिकानुकम्पया प्रयाणविच्छेदमकरोत् ॥ क ॥
हरिः सिंहः । या च हरेर्विष्णोः प्रिया वल्लभा सा कथमासन्नमधुसंज्ञकदैत्येति वि- रोधः । मातङ्गा गजाः श्वपचाश्च । द्विजाः पक्षिणो विप्राश्च । इमे चेति । महत् द्रुपदं वृक्षस्थानं येषु तथोक्ताः । तथा सह शिखण्डिभिर्मयूरैः । अथ च महाद्रुपदाः क्षत्रविशेषाः । द्रुपदतनयश्च शिखण्डी । चित्रशिखण्डिमण्डितेत्यनेन पूर्वमटव्यां मयूरसद्भाव उक्तः । इदानीं विन्ध्यस्कन्धेष्विति न पौनरुक्त्यम् । विच्छिन्नाः पृथ- ग्भूताः कीचकाः सच्छिद्रा वंशाश्च निश्छिद्रा येषु । वृका अरण्यश्वान उदरे मध्ये येषु । वृकोदरो भीमोऽपि । स च विशेषेण छिन्नकीचकाख्यराजान्वयः । पाण्डुः संतानकस्तरुविशेषो येषु । तथा पुण्डरीकैः सिताम्भोजैर्वृक्षैश्च विभीतकैः सह । पाण्डोः संताना एव संतानकाः सुताः पाण्डवास्ते तु पुण्डरीकाक्षेण विष्णुना सह महान्तो वराहा येषु । तथा उत्कर्षेण हृता विस्तारेण रुद्धा भूयैः । महावराहो विष्णुः । स चोत्क्षिप्तपृथ्वीकः । अमन्दो रागो येभ्यस्तेऽमन्दरागाः । तथा उत्कृ- ष्टा मनोज्ञाः सुरभयश्चम्पकाः श्रीद्रुमाश्च पिप्पलास्तेषामावलिस्तत्र हरयः कपयस्तै- राकृष्टानि पन्नगनेत्राणि सर्पाक्षीणि येषु । इत्यमन्दरागले हेतुः । पक्षे मन्दराख्यो- ऽगोऽद्रिः । तदा उत्कृष्टोद्गता सुरभिः श्रीर्लक्ष्मीर्द्रुमः पारिजातश्च यैः । मन्दरेण हि सुरभिप्रभृतीन्यम्भोधेरुद्धृतानि । सुरभिर्धेनुः । इह तु प्रस्तावात्कामधेनुः । यद्विश्वप्रकाशः—'सुरभिश्चम्पके स्वर्णजातीफलवसन्त्योः । संधौ पले सौरभेय्याम्' इति । तथा बलेर्दैत्यस्य हरेर्विष्णोश्च करैराकृष्टं आमितं पन्नगो वासुकिलक्षणं नेत्रं मन्थानमाकर्षणरज्जुर्यत्र । कैलासकूटा इवाचरन्तः । स्थाणुः स्थिरपदार्थः शिवश्च । दुर्गा विन्ध्यवासिनी देवी गौरी च । दुर्गे आश्रयो येषामिति वा । तथा आकर्ण्य-
१ 'कैकार'.