नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 194, कुल 258 में से
संदर्भ में पढ़ें१७४ नलचम्पूः । श्रूयते किलास्मादुद्देशात्पूर्वदिग्भागे भगवतः पुराणपुरुषावतारस्य परशुरामस्य जनयितुर्जमदग्नेराश्रमः । ततोऽपि १नातिदूरेण सुरासुर- मौलिमालामुकुलमुक्तमकरन्दबिन्दुस्नपितपादारविन्दस्य भगवतः स्व- स्वेदप्रसरप्रवर्तितपयोष्णीप्रवाहस्य महावराहस्यायतनम् ॥ क ॥ इतोऽप्यवलोकयतु देवः । सैषा चलच्चन्द्रकिचक्रवाक- चञ्चच्चकोराकुलकूलकच्छा । स्वःसीमसोपानसहक्तरङ्गा गङ्गाप्रतिस्पर्धिपयाः पयोष्णी ॥ २६ ॥ यस्याः पश्यैते मुक्तास्रैः श्रूयमाणं सिकतिलपुलिनप्रान्तविश्रान्तपान्थै- रुन्धानं मञ्जुगीतप्रियहरिणकुलान्यम्बुपानागतानि । सांध्यध्यानावसाने क्षणमिव मुनयः संनिधौ पङ्कजाना- मोंकारोच्चाररम्यं मधुकरमधुरध्वानमाकर्णयन्ति' ॥ २७ ॥ राजा तु 'नमस्याः खल्वमी महानुभावाः ॥ ख ॥ तथाहि । मृगेषु मैत्री मुदितात्मदृष्टौ कृपा मुहुः प्राणिषु दुःखितेषु । येषां न ते कस्य भवन्ति वन्द्याः कौशेयकौपीनभृतो मुनीन्द्राः' ॥ २८ ॥ इत्यवधारयँस्तानवन्दे ॥ सैषेति ॥ चन्द्रकी मयूरः । कच्छाः काशादिक्षेत्रप्रदेशाः । खःसीमेत्यत्र खरि- त्यव्ययं स्वर्गार्थम् ॥ २६ ॥ मुक्तेति ॥ सिकतास्यास्तीत्यर्थे इलच् । मधुकरध्वानस्योत्कण्ठाजनकत्वात्पा- न्थानां मुक्ताश्रुत्वम् । गीतप्रियत्वाद्वरिणानां रोधः मुनीनां च देवत्रयीवेदत्रयीवा- चिन्योंकारे लीनत्वात् । तत्प्रतिनिधौ मधुकरध्वाने बहुमानः । तथा च 'त्रयीं ति- स्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरानकाराद्यैर्वर्णैस्त्रिभिरभिदधत्तीर्णविकृति । तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः समस्तं व्यस्तं त्वां शरणद गृणात्योमिति प- दम्' ॥ २७ ॥ मृगेष्विति ॥ मैत्री मुदिता करुणा इति तिस्रोऽपि चेतःप्रसादिन्यो भावनाः । कौशेयकौपीनभृत इति निःसङ्गत्वोक्त्या पापकारिषूपेक्षाप्यभिहिता ॥ २८ ॥ १ 'नातिदूरे प्रणतसुरा'.