नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 247, कुल 258 में से
संदर्भ में पढ़ेंएवमनेकविधोपाख्याननिपुणया तत्कालोचितम्, अनुच्छस्मितसुधा- स्निग्धम्, अविरुद्धम्, परिमितपरिहाससुन्दरम्, अनुवृत्तिबृंहितानुरा- गम्, उचितचाटुचटुलम्, अशाठ्यम्, अकठोरम्, अनुज्झितप्रियम्, प्रियंवदिकया सहाल्पालपं जल्पन् 'अयुक्तमिह कन्यान्तःपुरे चिरं स्थातुम्' इति चिन्तयन्नापृच्छथ दमयन्तीं नलः पर्यङ्किकापृष्ठादुदति- ष्ठत् ॥ क ॥ प्रथमोत्थितया च तया लज्जावनम्ववदनारविन्दया सह सखीकद- म्बकेन द्वित्राणि पदान्यनुगम्यमानो विहँसन् 'अलमलमायासेन, स्थीयतां सुखम्' इत्यभिधाय स्वगृहानयासीत् ॥ ख ॥ गत्वा च शिरीषकुसुमदाममृदुनि शय्यातले निषण्णश्चिन्तयांच- कार ॥ ग ॥ हर्षादुत्पुलकं विकासि रभसादुत्तानितं कौतुका- च्छृङ्गारादलसं, भयात्तरलदृङ् नम्रं च लज्जाभरात् । तस्यास्तन्नवसंगमे मृगदृशो दृश्येत भूयोऽपि किं किंचित्काञ्चनगौरगण्डगलितस्वेदाम्बुरम्यं मुखम् ॥ ४८ ॥ अपिच। अपसरति न चक्षुषो मृगाक्षी रजनिरियं च न याति नैति निद्रा । प्रहरति मदनोऽपि दुःखितानां बत बहुशोऽभिमुखीभवन्त्यपायाः ॥ ४९ ॥ इति विविधवितर्कापेशविध्वस्तनिद्रः सजलजडिम मीलत्पक्ष्म चक्षुर्दधानः । हरचरणसरोजद्वन्द्वमाधाय चित्ते नृपतिरैपि विदग्धः स त्रियामामनैषीत् ॥ ५० ॥ इति श्रीत्रिविक्रमभट्टविरचितायां दमयन्तीकथायां हरचरणसरो- जाङ्कायां सप्तम उच्छ्वासः समाप्तः ॥ ग्रन्थोऽपि समाप्तः ॥
इति विषमपदप्रकाशमेतं दमयन्त्यास्तनुते स्म चण्डपालः । शिशुमतिलतिकाविकासचैत्रं चतुरमतिस्फुटभित्तिचारुचित्रम् ॥
१ 'चितमुवा', 'स्निग्धम्'. २ 'परिमितं'. ३ 'असाध्यकठोरम्'. ४ 'पर्यङ्किकातलादुद'. ५ 'विरहातुरामलमलभ्रया'. ६ 'चक्षुषोः'. ७ 'नृपतिरयम सञ्जीतां त्रि०'.