नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 36, कुल 258 में से
संदर्भ में पढ़ें२० नलचम्पूः । लोकास्तेऽपि चिरंतनाः सुकृतिनस्तद्वक्त्रपङ्केरुहे यैर्विस्फारितनेत्रपत्रपुटकेलौवण्यमास्वादितम् ॥ ३४ ॥ अपिच । ये कुन्दद्युतयः समस्तभुवनैः कर्णावतंसीकृता यैः सर्वत्र शलाकयेव लिखितैर्दिग्भित्तयश्चित्रिताः । यैर्यक्तुं हृदि कल्पितैरपि वयं हर्षेण रोमाञ्चिता- स्तेषां पार्थिवपुंगवः स महतामेको गुणानां निधिः ॥ ३५ ॥ यस्य च युधिष्ठिरस्येव न कचिदपार्थो वचनक्रमः, मरुमण्डलमिव- वापापं मानसम्, महानसमिव सूपकारसारं कर्म, कार्मुकमिव सत्को- टिगुणं दानम्, दानवकुलमिव दृष्टवृषपर्वोत्सवं राज्यम्, राजीवमिव भ्रमरहितं सर्वदा हृदयम् ॥ क ॥ यश्च परमहेलाभिरतोऽप्यपारदारिकः । शान्तनुतनयोऽपि न कुरू- पयुक्तः ॥ ख ॥ किं बहुना । सदाहंसाकुलं बिभ्रन्मानसं प्रचलज्जलम् । भूभृन्नाथोऽपि नो याति यस्य साम्यं हिमांचलः ॥ ३६ ॥ यस्य चेति ॥ अर्थादपेतोऽपार्थः । अन्यत्र पृथाया अपत्यत्वात् । अपापं निष्पापम् । पक्षेऽपेता आपो यस्मात् । सुष्ठु उपकारेण सारम् । पक्षे सूपकारैः सूदैः सारम् । सत्पात्रप्रतिपादनाद्दानं सच्छोभनम् । कोटिः संख्या । पक्षे कोटि- रटनिः । गुणो ज्या । वृषो धर्मः । पर्व पौर्णमास्यादि उत्सवः पुत्रजन्मविवाहा- दिस्ते दृष्टा अनुष्ठिता यत्र । पक्षे वृषपर्वा दानवः । भ्रमः संशयः । पक्षे भ्रम- रेभ्यो हितम् ॥ क ॥ यश्चेति ॥ हेला शृङ्गारचेष्टा । यद्वा पर उत्कृष्टो मह उत्सवो यस्यां तस्या- मिलायां पृथ्व्यां रतः । राजन्वती हि मही सदुत्सवा । विरोधे महेला स्त्री । शान्तश्चासौ नुतनयश्च । शान्तो जितेन्द्रियः । तथा नुतः स्तुतो नयो नीतिर्यस्य । तथा न कुत्सितरूपयुक्तः । पक्षे शान्तनुपुत्रो गाङ्गेयः कुरूणां क्षत्रियाणामुप- योगी ॥ ख ॥ सदेति ॥ भूभृतो गिरयो नृपाश्च । तन्नाथत्वं द्वयोरपि । सत्यप्येवं हिमाचलो यस्य साम्यं नायाति । यतः । सदाहं सखेदम् । साकुलं व्यग्रम् । प्रचलत्कम्पमा- नम् । जडं व्यामूढम् । मानसं चेतः । बिभर्ति । सिद्धान्ते तु मानसं सरः । सदेति भिन्नम् । प्रचलज्जलं यत्र । शेषं प्रतीतम् । आकुलशब्दो भावप्रधानो यथा तिष्ठन्ति च निराकुलाः ॥ ३६ ॥ १ 'यस्य युधिष्ठिर इव'. २ 'हिमालयः'.