नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 46, कुल 258 में से
संदर्भ में पढ़ें३० नलचम्पूः । नाधरप्रवालाः प्रभञ्जनाः, केऽप्युत्खातदन्तिदन्तमुष्टयो निस्त्रिंशाः, तस्य पृथिवीपतेराकुलितश्वापदाः पदातयो वनं रुरुधुः ॥ क ॥ ततश्च तैः क्रियन्ते विकलभा वनविकुञ्जाः कुञ्जराश्च, ध्रियन्तेऽने- कधौरयातिपातिनः खङ्गाः खड्गिनश्च, कृष्यन्ते कूजन्तः कोदण्डदण्डा गण्डकाश्च, विक्षिप्यन्ते परितः शराः शरभाश्च, भज्यन्ते तरवस्तरक्ष- वश्च ॥ ख ॥ क्षणेन च पतन्ति पीवरा वराहाः, सीदन्ति दन्तिनः, विरसं रसन्ति सातङ्का रङ्कवः, प्रैकाशैलं शैलं भयादारोहन्ति रोहिताः, शरसंघौ- तघूर्णिता यान्ति महीं महिषाः, दुर्गसंश्रयं श्रयन्ते तरलितनेत्रर्त्रिश्चि- त्रकाः, त्वरिततरं तरन्तीवोत्पतन्तो नभसि निजजवनिर्जिततुरंगाः कुरङ्गाः ॥ ग ॥ तत्र च व्यतिकरे जाताकस्मिकविस्मयैः किमिदमित्याकर्ण्यमानः सुरैः संत्रासोज्झितकर्णतालचलनान्दिग्दन्तिनः कम्पयन् । जन्तूनां जनितज्वरः स मृगयाकोलाहलः कोऽप्यभू- द्येनेदं स्फुटतीव निर्भरभृतं ब्रह्माण्डभाण्डोदरम् ॥ ४८ ॥ वीश्शकुन्तानप्रलोकयन्तः पापर्द्धिका हि कपोतादिपातनाय तरूणामधस्तात्तापनीसं- ज्ञकामभीष्टिकां कुर्वन्ति । पक्षे सामिहोत्रा विप्रलोकाः । खण्डिता अञ्जनस्य पक्षि- रूपपक्षिणोऽधरप्रवालाः पुच्छाधःपिच्छानि यैः । यद्वाऽञ्जनस्य शाखिनोऽधःपल्लवाः । वातास्तु खण्डितोऽञ्जनाख्यायाः प्रियाया ओष्ठपल्लवो यैः । उत्खाता दन्तिदन्ता यैस्तयोक्ता मुष्टयः संग्रहा येषाम् । पक्ष उत्क्षिसदन्तिदन्तप्रधानो मुष्टिः त्सरुर्येषु । निस्त्रिंशाः क्रूरकर्माणः खड्गाश्च । ईदृशास्तस्य पत्तयो वनं वेष्टयामासुः ॥ क ॥ ततश्चेति ॥ विगताः कलभा येभ्यस्ते व्यपेतकरिपोताः । कुञ्जरास्तु विक- लकान्तयो भयादिति शेषः । खङ्गा द्विधारत्वादनेकया धारया पतन्त्यभीक्ष्णम् । गण्डकास्तु रयेनातिपतन्ति । य उद्भिन्नशृङ्गाः प्रौढास्ते खड्गिनः । अतएव रया- तिपातिनः । त एव बालका गण्डकाः । अतएव कूजन्तः । तरक्षवश्चित्रका- द्याः ॥ ख ॥ क्षणेन चेति ॥ सातङ्काः सभयाः । रङ्कवो मृगाः । प्रकाशाः स्पष्टा एला लता यत्र शैले । रोहितः श्वापदः । चित्रकोऽपि तद्विशेषः ॥ ग ॥ ४८ ॥ १ 'पल्लवाः '. २ 'धारया पातिनः'. ३ 'प्रकाशरैलम्'. ४ 'संघातघातघूर्णितायाम्'. ५ 'संश्रयन्ति'. ६ 'नेत्रानेत्रकाः'. ७ 'विनिर्जित'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA