नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 57, कुल 258 में से
संदर्भ में पढ़ेंद्वितीय उच्छ्वासः । ४१ प्रथमसंमुखप्रेङ्खितेन चलच्चन्दनामोदनन्दिनान्दोलनवेगवित्रस्तकु- सुमिततरुशिखरसुमसुरतश्रमखिन्नकिंनरीनिबिडतरपरिरभ्यमाणकिं- नरतमस्कृतेन क्रीडाकमलदीर्घिकातरङ्गोत्सङ्गरङ्गतरुणतामरसरसवि- सरोद्गारहारिणा यौवनमदनिरुद्धनैषधीधम्मिल्लवल्लरीचलनविलासलो- सकेन वनमारुतेनोत्पुलकिततनुः स्तोकमन्तरमतिक्रम्य 'देव, भवद्वैरिवि- धूवदने वने च नारंगत रूपशोभे भान्ति गण्डशैलस्थलालंकारधारिण्यो लोध्रलताः, नागरुचिताश्चन्दनपत्रभङ्गाः, नालिकेरचितस्तिलकः, नवा दृष्टिपथमवतरति घनाञ्जनयष्टिका, नाभिरम्या नीलतमालका, नाध- रीकृतस्ताम्बूलीरागः, पल्लवितमेतद्दृश्यतेऽशोकजालम् । इतश्च काञ्चन- गिरिरिव सुरचितः क्रीडापर्वतः । इतश्च गूर्जरकूर्चमिवाखण्डितप्रवालं वालशालवनम् । इतश्च भवद्वैरिनगरमिवानेकविधवकुलसंकुलं कूप- कुलम् । इतश्च धूर्जटिजटाजूट इव पुंनागवेष्टितो वापीपरिसरः । इतश्च कुरुसेनेव कृताश्वत्थामहिता च क्रीडासरित्पुलिनपालिः ।' इति भङ्ग- तत ईदृग्विधेन वायुना रोमाञ्चिततनुः देवेत्याद्यामन्त्र्य तवारिखीमुखे वने चेदमिति भङ्गश्लेषोक्तिदक्षया वनरक्षिकया कथ्यमानानि वनकौतुकस्थानानि नलो व्यलोकयत् । आन्दोलनवेगेत्यादावान्दोलनं तरोरेव पवनकृतम् । तदरिखीमुखे अरमत्यर्थं गतसौन्दर्ये कपोलफलकालंकारिण्यो लोध्रस्य विलेपनरूपस्य लता मण्डन- वल्लर्यो न भान्ति । अगरुद्रवेण चिताश्चन्दनद्रव्यस्य पत्रभङ्गाः पत्रवल्ल्यः । अलिकं ललाटं तिलकं पुण्ड्रम् । वा समुच्चये । घनं सान्द्रमञ्जनं तस्य यष्टिः शलाका । अभिरम्या संस्कृता । प्रकर्षेण नीलाः कुटिलकेशाः अधरोऽस्यास्तीत्यधरी ओष्ठवान् । ताम्बूलराग ओष्ठसंबद्धः कृत इति भावः । सर्वत्र नञ्संबन्धः । अवतरतीति तु संनिहितमेव योज्यं न प्रत्येकम् । पल्लवितशब्दो लक्षणया प्रवृद्धार्थः । शोकात्सप्र- लापमनोदौस्थ्याजातं शोकजम् । अलमनर्थः । वने च नारङ्गतरुभिः कृतशोभे सहजच्युतस्थूलपाषाणस्थलीभूषणा लोध्रस्य तरुविशेषस्य लताः शाखा भान्ति । नागेभ्यो रुचिताश्चन्दनतरोः पत्राणां भङ्गा विशेषाः । तिलको वृक्षो नालिकेरैस्तरु- भिर्व्याप्तः । नवा नवीना । अञ्जनस्य शाखिनो यष्टिः प्रकाण्डः । तमालका इति ह्रस्वे कः । अतएव नाभिरम्या नाभिदघ्ना इति भावः । नाधरीकृतो न हीनीकृतः । ताम्बूली वल्ली । रागः सक्तिः । किसलयितमशोकानां जालं खण्डः । इतश्च सुष्ठु रचितः सुरैश्चितो व्याप्तश्च । प्रवालाः पल्लवाः । पक्षे अखण्डिताः अतएव प्रवृद्धा वालाः केशा यत्र । अनेकविधैर्बकुलैः संकुलम् । पक्षे अनेका विधवा मृतभर्तृका १ 'अमन्दान्दोलन'. २ 'सुखसुप्त'. ३ 'किंनरीजन'. ४ 'यौवनमदनिरुद्धापाङ्गनै- षधी'; 'यौवनमदरुद्धापाङ्गनैषधीय'. ५ 'हास्यलासकेन'. ६ 'अतिक्रम्य वनपालिका राजानं जगाद' प. ७ 'ताम्बूल'. ८ 'गूर्जर'.