भारतकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 7, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 7

निर्णयसागरमुद्रितनूतनपुस्तकानि । आह्निकचन्द्रिका—( सायनमन्त्रभाष्यसहिता ।)—आचारचन्द्रिकेत्यपरमस्या एवाभिधानमस्ति । अस्यां यथावकाशं आह्निकान्तर्गताः सर्वे मन्त्राः, सूक्तानि, सौरसूक्तानि, रुद्राध्यायः, रुद्रसूक्तानि, विष्णुसूक्ता- नि, देवीसूक्तं, श्रीसूक्तं, गणपतिसूक्तं चेति विषयाः सायनाचा- र्यभाष्यसंवलिताः, सभाष्यं गणपत्यथर्वशीर्षं च संगृहीतमस्ति. मूल्यं ०॥।• मार्गव्ययः ४= ऋक्संहितापदपाठः—( पदानि ) इदं पुस्तकं वेदाध्येतृणामध्यापकानां वैदिकानां चोपयोगार्थं सम्यक् शुद्धं कारयित्वा वैदिकपाठानुगुणमेवा- ङ्कितमस्ति. मूल्यं ३ रु., मार्गव्ययः ०।= कारिकावली—( सिद्धान्तमुक्तावलीसहिता )—नास्त्यविदितमेतत्कृतगीर्वाणभा- पापरिचयानां विशेषतश्च भारतीयानां यत्किल सकलप्रकरणमौलिभूता सिद्धान्तमुक्तावलीभासिता कारिकावली न्यायसिद्धान्तं करतलगतमिव प्रकाशयन्ती गादाधरीजागदीशिप्रभृतितत्त्वचिन्तामणिदीधितिव्याख्या- ध्ययनयोग्यतामादधात्यध्येतॄणामिति । सेयमस्माभिर्दिनकरीव्याख्यया पाठांन्संवाद्य विषमस्थलटिप्पणीनिवेशनपुरःसरं प्रकाशिता । मूल्यं ०।= मार्गव्ययः ४- कुवलयानन्दः—( चन्द्रालोक-अलंकारचन्द्रिकासहितः )—अप्पयदीक्षितकृतः सर्वोलंकारसर्वस्वभूतः । अस्मिन्ग्रन्थकृता सर्वेषामलंकाराणामुदाहरणभूतैर- तिमधुरपद्यैर्यथावद्विशदीकरणं कृतमस्ति । अन्ते कुवलयानन्दोदाहृतचन्द्रा- लोकादिगतानां वृत्तानामकारादिवर्णक्रमकोशोऽपि मुद्रितोऽस्ति. मूल्यं ०॥।= मार्गव्ययः ४= चम्पूभारतम्—रामचन्द्रबुधेन्द्रविरचितया व्याख्यया समेतम् । अयं प्राचीनो विद्वन्मान्यो व्युत्पत्तिग्रन्थेषु काव्यनाटकादिषु चूडामणित्वेन वरीवर्ति• अत्र चाखिलमहाभारततात्पर्यमतिविशदं तत्रतत्र प्रासानुप्रासयमकालंका- रोल्लसिता काव्यचातुरी तावदपूर्वैव निबद्धास्ति. मूल्यं २।। रु., मार्गव्ययः ०।•