निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 642, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( २३७ ) ६ अध्याय 〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰 शब्दं अर्थ अघशंसम् अघस्यशंसितारम् । ( खं० २ ) अघम् हन्तेः । निर्ह्रसितोपसर्गः आहन्तीति । तपुः तपतेः । चरुः सञ्चयोभवति । चरतेर्वा । समुच्चरन्त्यस्मादार्षः । ब्रह्मद्विषे ब्राह्मणद्वेषिणे । क्रव्यादे क्रव्यमदते । घोरचक्षसे घोरख्यानाय । क्रव्यम् निकृत्ताज्जायते इतिनैरुक्ताः । अनवायम् अनवयवम् । यदन्येनव्यवेयुः । अद्धैषम् इतिवा । पिशुनः पिशतेः विपिशतीति । ( खं० २ ) कृणुष्व कुरुष्व । ( खं० ३ ) पाजः पालनात् । प्रसितिम् पृथिवीम् । प्रसितिः प्रसयनात् तन्तुर्वा जालंवा । तृष्वीं इतिक्षिप्रनाम । त्वरतेर्वा । तपिष्ठैः तप्ततमैः । तृप्ततमैः । प्रपिष्टतमैरितिवा । दुशर्मा क्रिमिर्भवति । पापनामा । कृमिः क्रव्येमेद्यति । क्रमतेर्वाऽस्यात्सत्सरणात्कर्मणः । क्रमतेर्वा । ( खं० ३ ) अध्वरे यज्ञे । ( खं० ४ ) उशतः कामयमानान् । नासत्यौ अश्विनौ । सत्यावेवनासत्यावितिऔर्णवाभः । सत्यस्यप्रणेतारौ इतिआग्रायणः । नासिका- प्रभवौबभूवुरितिवा । ( खं० ४ )