निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 70, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त। ६६
'अह' इति च, 'ह' इति च, विनिग्रहार्थीयौ । पूर्वेण संप्रयुज्येते । 'अयमहेदं करोतु,' 'अयसिदम्' । 'इदं ह करिष्यति, इदं न करिष्यति, इति । अथापि 'उकार' एतस्मिन्नेवार्थे। उत्तरेण । 'मृषा इमे वदन्ति, 'सत्यमु ते वदन्ति, इति । अथापि पद-पूरणः । 'इदमु' 'तदु' । 'हि' इत्येषः अनेक-कर्मा । 'इदं हि करिष्यति'—इति हेत्वपदेशे । 'कथं हि करिष्यति' इति अनुपृष्टे । 'कथं हि व्याकरिष्यति' इति असूयायाम् । 'किल' इति विद्या-प्रकर्षे । 'एवं किल' इति । अथापि 'न' 'ननु' इत्येताभ्यां संप्रयुज्यते । अनुपृष्टे—'न किल एवम्' । 'ननु किल एवम्' 'मा' इति प्रतिषेधे । 'मा कार्षीः ।' 'मा- हार्षीः'—इति च । 'खलुक्त्वा' । 'खलुकृतम्' । अथापि पदपूरणे । 'एवं खलु तद् बभूव' इति । 'शश्वत्' इति विचिकित्सार्थीयो भाषायाम् । 'शश्वदेवम्' इति अनुपृष्टे । 'एवं शश्वत्, इति अस्वयं पृष्टे । 'नूनम्' इति विचिकित्सार्थीयो भाषायाम् । उभयमन्वध्यायम् । विचिकित्सार्थी यश्च पदपूरणश्च । 'अगस्त्य इन्द्राय हविर्निरूप्य