न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 112, कुल 608 में से
संदर्भ में पढ़ें७८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ६ कारिकाव्याख्यायां प्रकाशः। परमाणौ वृत्तेः, द्रव्यत्वस्यापि द्रव्यत्वसाक्षाद्व्याप्यजातित्वात्। तद्भिन्नतद्व्याप्याव्याप्यत्वे सति तद्व्या- प्यत्वस्यैव साक्षाद्व्याप्यत्वरूपत्वात्। नचान्ये परमाणवस्तत्रादृष्टाकृष्टा दध्यारम्भकाः। तदुत्कर्षा- द्यनुविधानानुपपत्तेरुक्तत्वात्। दध्यर्थं दुग्धोपादानानुपपत्तेश्च। अपि च, यद्द्रव्यध्वंसजन्यं यद् द्रव्यं प्रकाशिका। द्रव्यत्वमेव परमाणौ न वर्त्तत इत्यत आह—द्रव्यत्वस्यापीति। तद्भ भिन्नेति। घटत्व- स्यापि द्रव्यत्वसाक्षाद्व्याप्यत्वं मा भूदिति सत्यन्तम्। तस्य तद्व्याप्यजात्यव्याप्यत्वमर्थः, अन्यथो- पाधिमादायासम्भवापत्तेः। तत्रापि पृथिवीत्वं द्रव्यत्वं च द्रव्यत्वव्याप्यमादायासम्भव इति तद्भि- न्नपदं तच्छब्दश्च व्याप्यव्यापकत्वाभिमतोभयपरामर्शकः, सत्ताया द्रव्यत्वसाक्षाद्व्याप्यत्वं मा भूदिति तद्व्याप्यत्वं विशेषणम्। नन्वेवमात्मत्वादौ जात्यन्तरव्यापकेऽव्याप्तिः, तद्भिन्नतद्व्याप्यजात्यप्रसि- द्धेरिति। अत्र केचित् द्रव्यत्वसाक्षाद्व्याप्यस्यैवात्र लक्ष्यतया उक्तव्याप्तेरदोषत्वमिति। वस्तुतो व्याप्यपदस्या व्यापकपरतया तदव्यापकजात्यव्याप्यत्वं सत्यन्तार्थ इति व्यधिकरणजातिमादायैव प्रसिद्धिः। अत्रार्थे तत्पदं साक्षाद्व्याप्यत्वाभिमतपरम्। अन्यच्च व्यापकत्वाभिमतपरम्। मिश्रा- स्तु खण्डशः प्रसिद्ध्यौ तद्व्याप्यजातित्वाभावात्तदुभयभिन्नयावत्स्वव्यापकधर्मकत्वमुक्तलक्षणा- र्थः। अत्र चायं तत्पदं व्यापकत्वाभिमतपरम्। तदुभयपदं व्याप्यव्यापकत्वाभिमतपरम् स्व- पदं च व्याप्यत्वाभिमतपरम्। एवं च स्वव्यापकमुपाधिमादाय चरमजातौ प्रसिद्धिरिति वद- न्ति। वयं तु तद्भिनेत्यत्र तत्पदं व्यापकत्वाभिमतपरं व्याप्यपदं प्रथमं तत्समानाधिकरणा- त्यन्ताभावप्रतियोगिपरं द्वितीयव्याप्यपदन्तु न्यूनवृत्तिपरम्। एवं च द्रव्यत्वभिन्नद्रव्यत्वसमा- नाधिकरणात्यन्ताभावप्रतियोगिपृथिवीत्वादिन्यूनवृत्तित्वाभावः पृथिवीत्वे। घटत्वभिन्नघटत्वसमाना- धिकरणात्यन्ताभावप्रतियोगिगुणत्वन्यूनवृत्तित्वाभावो घटत्वे चरमजातौ, साधारणतदधिकरणवृ- त्तित्वे सति यत्किञ्चित्तदधिकरणावृत्तेर्न्यूनवृत्तिपदार्थत्वादिति ब्रूमः। उत्कर्षाद्यानुविधानं दध्य- र्थं दुग्धोपादानं च निमित्तकारणत्वेऽप्युपपद्यत इत्यरुचेराह। यद्द्रव्येति। अत्रापि विपक्षे बाध- मकरन्दः। प्रसिद्धिरिति भावः। सिद्धसाधनमिति भाव इत्यन्ये। तर्हि द्रव्यत्वमपि तत्र न वर्त्तेतत्यत आह- द्रव्यत्वस्यापीति। तद्भिन्नति। तद्व्याप्यत्वमात्रं परम्परा व्याप्येऽतिव्याप्तमित्यत उक्तं सत्य- न्तम्। तथापि तद्व्याप्याऽव्याप्यत्वमसम्भवि, पृथिवीत्वादेर्द्रव्यत्वादिव्याप्यीभूतद्रव्यत्वादिव्याप्य- त्वात्, द्रव्यत्वादिव्याप्यीभूतपृथिवीत्वादिव्याप्यत्वाच्च। अभेदेऽपि व्याप्तिसत्त्वादित्यत उक्तं, तद्भिन्नति। साक्षाद्व्याप्यव्यापकाभिमतोभयभिन्नेत्यर्थः। सत्तादेरपि द्रव्यत्वादिसाक्षाद्व्याप्यत्वा- पत्तिरिति चरमं तद्व्याप्यत्वमुक्तम्। न च तदुभयभिन्नद्रव्यत्वादिव्याप्यगुणवत्त्वादिव्याप्यतया पृ- थिवीत्वादावसम्भव इति वाच्यम्। तद्भिन्नतद्व्याप्यजात्यव्याप्यत्वे सतीत्यर्थात्। नन्वेवं चरम- जातेः स्वसाक्षाद्व्याप्यत्वं न स्यात्, स्वभिन्नस्वव्याप्यजात्यप्रसिद्धेः। न च स्वस्य स्वसाक्षाद्व्या- प्यत्वं न विवक्षितमिति वाच्यम्, द्रव्यत्वस्यापि स्वसाक्षाद्व्याप्यत्वमित्युपक्रमविरोधादिति चेत्। मैवम्। द्रव्यत्वसाक्षाद्व्याप्यत्वमात्रस्यैव प्रकृतत्वेन लक्ष्यत्वादित्याहुः। वस्तुतस्तु, तद्भिन्नतद- व्यापकजात्यव्याप्यत्वे सति तद्व्याप्यत्वं विवक्षितम्। तत्पदं साक्षाद्व्याप्यत्वाभिमतमात्रपरम्। अन्यच्च व्यापकत्वाभिमतपरमित्यवधेयम्। यद्द्रव्येति। घटध्वंसजन्ये घटरूपादिव्वंसे व्यभिचारादाह चरमद्रव्यपदम्। यद्द्रव्याभा- वजन्यमिति कृते प्रतिबन्धकद्रव्यात्यन्ताभावजन्ये द्रव्ये व्यभिचारः स्यादिति ध्वंसपर्यन्तमुपा- त्तम्। न च तद्द्वंसस्यापि जनकत्वाद् दोषतावदवस्थ्यम्। ध्वंसत्वेन जनकत्वस्याग्रे विवक्षणात्।