न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 117, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तवके ] स्वभावकारणतावादखण्डनम् । ८३ रानियमवत्तेनैव व्यज्यमानस्य कार्य्यजातिभेदस्य भावात् । दृश्यते च पावकत्वा- विशेषेऽपि प्रदीपः प्रासादोदरव्यापकमालोकमारभते, न तथा ज्वालाजालज- टिलोऽपि दारुदहनो, न तराञ्च कारीषः ॥ बोधनी । गमाश्रितयतसामग्रीव्यङ्ग्याया जातेर्भेदोऽस्ति । नहि सामग्री भिद्यते न भिद्यते च कार्यमिति सम्भ- वति । तथा च प्रयोगः—तार्णाद्यग्नयोऽग्नित्वावान्तरजातिभेदवन्तः विलक्षणसामग्रीजन्यत्वात् तैलवर्त्त्या विलक्षणसामग्रीकप्रदीपादिवदिति । न च साध्यविकलो दृष्टान्त इत्याह-दृश्यते-च- इति । प्रदीपादौ कार्यभेददर्शनादवान्तरजातिभेदोऽवश्याभ्युपगन्तव्य इति । प्रकाशः । पत्तेरित्यर्थः । न चानुपलब्धिबाधितं वैजात्यमित्याह । तेनेति । विवादपदमग्नयो वह्नित्वव्या- प्यजातिमन्तः नियतसहकार्य्यनुप्रवेशेन जायमानवह्नित्वात् प्रदीपदारुदहनवदिति कारणविशेषस- म्बन्धव्यङ्ग्यत्वान्न जातीनामित्यर्थः । न च दृष्टान्तः साध्यविकल इत्याह । दृश्यते चेति । तत्र तैलादिकारणविशेषव्यङ्ग्यत्वं यथा जातीनां, तथाऽत्रापीति नादृष्टचरकल्पनमित्यर्थः । यद्यपि दुरु- हत्वान्नौष विशेष आपाततः स्फुरति, तथापि विशेषानाकलनेऽपि तदनुकूलकारणमात्रमनुमीयते, प्रकाशिका न्यत्वमवच्छेदकं न तु सर्वत्रेति न दण्डवेमादीनां घटपटान्यन्यतरत्वावच्छिन्नकारणत्वशङ्का न तु वह्नौ तृणादिजन्ये वैजात्यमनुभूयत इति । तथाप्येवं मणेरपि तृणफूत्कारविशेषसंयोगसहकारित्वे तरणिकिरणसमवहितमणेरपि रात्रौ वह्न्यर्थिप्रवृत्तिविषयतापत्तिः । न च तरणिकिरणसम्बद्धमणेरेवं जनकत्वं सम्बद्धानां तृणादीनां च स्वस्वनिष्ठान्यान्यत्वेन जनकत्वे भवदुक्तनियमस्यैवानुपपत्तेः । न च सम्बन्धमात्रमेव कारणं न तु मण्यादीति वाच्यम् । उपजीव्यबाधात् । अन्वयव्यतिरेकगृहीततृ- णादिकारणतारक्षार्थमेव कारणप्रत्यासत्तितया सम्बन्धानां कारणत्वस्वीकारादिति । मिश्रास्तु अन्या- न्यत्वं न कारणतावच्छेदकम् तथासति तृणान्यन्यस्य वह्न्यवयवादेरकारणतापत्तेः, भावाभावयोरे- कत्राप्रयोजकत्वात् । नचैवं भवन्मतेऽपि तृणतदन्ययोः कथं वह्निप्रयोजकत्वमिति वाच्यम् । प्रयो- जकप्रतियोगिकाभावस्याप्रयोजकत्वमिति नियमशरीरत्वात् । त्वया च कारणीभूतवह्न्यवयवादि प्रतियोगिकस्यान्योन्याभावस्यावच्छेदकतया प्रयोजकत्वाभ्युपगमादिति वदन्ति । तच्चिन्त्यम् । भा- वाभावयोरेकत्राजनकत्वेऽपि एकाप्रयोजकत्वे मानाभावात् । वस्तुतस्तु तदपि न । घटघटान्योन्याभा- वाविति समूहालम्बनस्थले व्यभिचारात् । नच कारणाभावस्य न कारणतावच्छेदकत्वमिति नियमः, अप्रयोजकत्वादिति दिक् । विवादपदमिति । प्रदीपादावंशतः सिद्धसाधनवारणाय विशेषणमिदम्। मकरन्दः । स्यादिति घटपटान्यान्यतरत्वावच्छेदेन दण्डवेमान्यान्यत्वेन हेतुत्वापत्तिः । तथाचोक्तगौरवादतिप्रस- ङ्गाच्च न तदन्यान्यत्वमवच्छेदकमिति दिक् । यत्तु, नैकं विरुद्धद्वयप्रयोज्यम् । भावाभावयोरेकका- र्यजनकतापत्तेः । अत एव न यागध्वंसेनापूर्वस्यान्यथासिद्धिः । तदिह वह्नित्वं यदि तृणान्यान्य- प्रयोज्यं स्याद् , न स्यात्तदन्यवह्वयवयवादिप्रयोज्यं विरोधादिति । तच्चिन्त्यम् । एवं हि तृण- प्रयोज्यत्वेऽपि तदन्यवह्वयवयवादिप्रयोज्यत्वं विरुध्येत । यदि च तयोः परस्परविरहरूपत्वाभा- वात्तदुभयप्रयोज्यत्वं न विरुद्धं, तदा तुल्यम् । वह्न्यवयवत्वेनैव तस्य प्रयोजकत्वं, न तु तृणाय- न्यान्यत्वेनेत्यपि तुल्यमिति । विवादपदमिति । एतच्च प्रदीपादौ साध्यसिद्धया अंशतः सिद्धसाधनवारणार्थम् । नियतेति । ननु वृश्चिकादौ हेतुसत्त्वेऽपि साध्यासत्त्वाद्यभिचार इति चेत् । मैवम् । नियत-