न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 119, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तबके ] स्वभावकारणतावादखण्डनम् । ९५ प्रकाशः । 'फूत्कारसमवधाने सति वा ? नाद्यः । फूत्काराद्यसमवधानेऽपि तस्मात् तृणादेरग्न्युत्पत्त्यापत्तेः । नापरः । तथा सति सैव शक्तिस्तृणे फूत्कारादरणौ निर्मन्थनादिति शक्तावनियतहेतुकत्वापत्तेः । तत्राप्येकशक्तिमत्त्वेन हेतुत्वेऽनवस्थापत्तेरिति ॥ मैवम् । यथा ह्यन्वयव्यतिरेकाभ्यां तृणफूत्कारयोरन्योन्यसहकारित्वं तथैव तच्छक्त्योरपि परस्परसहकारित्वेन वह्नयनुकूलत्वम् । तथैव कार्यदर्शनात् । न तु मणिफूत्कारयोः सहकारित्व- मिति, न तच्छक्त्योरपि परस्परसहकारित्वम् । कार्यविशेषात् कारणविशेषानुमानं तु वह्निवृद्धि कादौविष्यत एव । निरूपितनियतवह्र्यादिकारणके धूमादौ अनुमानं स्यादेव । अन्यथा कार्यवै- जात्येऽपि वह्नित्वेन धूमविशेष एव कारणत्वं, न धूममात्र इति शङ्कया तवाप्यनुमानं न स्यादिति । अत्रास्मत्पितृचरणाः । तृणारणिमणिफूत्कारादिव्यक्तीनामनन्तत्वेन प्रतिव्यक्ति भावहेतुजानि- त्यानन्तशक्तिस्वीकारे गौरवम् । तावदनन्तव्यक्त्तिजन्यानन्तवह्निव्यक्तिषु जातित्रयकल्पने लाघव- मिति तदेव कल्प्यते । न च जातौ योग्यानुपलब्धिबाधः । गोमयवृश्चिकप्रभववृश्चिकयोरिपच्छद्या- मत्वकपिलत्वव्यङ्ग्यवैजात्यस्य प्रत्यक्षसिद्धत्वात् । तृणादिजन्याग्निष्वपि तृणजन्यत्वज्ञानानन्तरं मणिजन्यव्यावृत्तानुगतबुद्धेर्जातिविषयत्वाद् बाधकाभावात् । ननु तृणादीनामग्नौ कारणत्वग्रहे शक्तिवैजात्ययोरन्यतरकल्पनम् । तद्ग्रहश्च नान्वयव्यतिरेकाभ्याम् । व्यभिचारात् । अथारणिम- ण्यभाववति स्तोमविशेषे तृणं विना न वह्निः तृणान्वयेऽवश्यं वह्निरित्यन्वयव्यतिरेकाभ्यां, तत्रैव स्तोमे इतरकारणसमवधाने तृणान्वयेऽवश्यं वह्निरिति नियतेनान्वयेन वा रासभव्यावृत्तेन तृणादि- कारणताग्रह इति चेन्न । तृणं विनाऽपि वह्निरिति ज्ञाने सति वह्नि नियतपूर्ववर्तित्वस्य कारणत्वस्य ग्रहीतुमशक्यत्वात् । अबाधिताभावग्रहे भावग्रहस्याभावात् ॥ प्रकाशिका शक्तिः फूत्कारजन्या वेति विकल्पार्थः । मनवस्थेति । उत्तरोत्तरमपि भिन्नभिन्नसहकारिपरंपरांया एवं स्वीकारादिति भावः । तथैव तच्छक्त्योरपीति । तथा च कारणतावच्छेदकसाम्येऽपि तृणफूत्- कारयोरेव समवहितयोः फलोपधानं स्वभावादिति भावः । वस्तुतः सम्बन्धनामेकशक्तिमत्त्वेन कार- णत्वमित्यभिप्रायः । कारणतावच्छेदकयावद्धर्म्माश्रयैकैकव्यक्तिसमवधाने स्वभावविरहप्रयुक्तस्य फला- नुपधानस्यादृष्टत्वात् यद्यप्ययमभिप्रायो न युक्तस्तरणिकिरणसमवहितमणेरपि वह्न्यर्थिप्रवृत्तिविषय- त्वापत्तेरुक्तत्वात् । तथापि स्फुटत्वात् तदुपेश्यान्यदाह । तृणेति । ननु जातित्रयकल्पनमपि किम र्थं वह्वयन्वयव्यतिरेकानुविधायित्वस्यैव तृणादौ वह्निकारणतावच्छेदकत्वात् , धर्म्मिकल्पनातो धर्म्मक- ल्पना लघीयसीति न्यायात् । मैवम् । अन्वयव्यतिरेकानुविधानस्य सहकार्यान्तरसाधारन्येन तृणादि- मकरन्दः । त्कारप्राक्काल एव तृणे शक्तिस्तत्समवधाने तज्जन्या वेति विकल्पार्थः । तथैव तच्छक्त्योर- पीति । यद्यप्येवं कार्यवैजात्यमावश्यकम् । एकजातीयकार्ये सहकारिनियमानुपपत्तेः । तथापि तृणफूत्कारसम्बन्ध-तरणिकिरणमणिसम्बन्धादिष्वप्येकजातीयशक्तिमत्त्वं कारणतावच्छेदकम् । त- था च तदन्यतमसम्बन्धाभावे तृणनिर्मन्थनसमवधानेऽपि नाग्न्युत्पत्त्यापत्तिरिति भावः । तृणेति । ननूक्तगौरवेण मा भूच्छक्तिकल्पना, जातिकल्पनाऽपि कुतः । यावता वह्वयनुविधायित्वमेव धर्मि- कल्पनात् इति न्यायेनावच्छेदकमस्तु । नचेदमेव वह्निजनकत्वं, येनात्माश्रयान्नावच्छेद्यावच्छेदक- त्वं, किन्त्वनन्यथासिद्धादिघटितमिति चेन्न । तदनुविधायित्वस्य सहकार्यान्तरसाधारणतया तत्स- त्त्वे तृणान्यतमासत्त्वेऽपि वह्न्युत्पादापत्तेः । कारणतावच्छेदकावच्छिन्नव्यक्तिक्षत्सत्त्व एव का- र्योत्पादनात् ।