भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 133, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 133

तम्, ततो नेदमनवसर एव वक्तुमुचितम् । वृद्धैर्विप्रलब्धत्वाद् वालानामिति- चेन्न । वृद्धानामपि प्रवृत्तेः । न च विप्रलम्भकाः स्वात्मानमपि विप्रलभन्ते । तेऽपि वृद्धतरैरित्येवमनादिरिति चेत् । न तर्हि विप्रलिप्सुः कश्चिदत्र, यतः प्रता- रणशङ्का स्यात् । इदं प्रथम एव कश्चिदनुष्ठायापि धूर्त्तः पराननुष्ठापयतीति बोधनी । राद्धान्तः, नास्मद्गुरोः, तस्य निष्फलोपदेशासंभवात् । तत्राप्युपात्तदुरितक्षयादिफलमस्तीति राद्धान्तः । यद्वा, गुरु श्लाघ्यं तन्मतमित्युपालम्भगर्भः, न तु गुरोर्हितोपदेशिनः कस्यचिन्मतं-त स्मादप्रस्तुतमिदानीं न वक्तव्यमिति । तस्माद् यागादिकर्तृपूजादेर्दृष्टहेतुभावादवश्यं धार्मिक इति बुद्ध्या तदाचार इत्यभ्युपगन्तव्यम् । तेन यागादेस्तदनुष्ठातृपूजादेश्चामुष्मिकं फलं सिद्धमिति रह- स्यम् । तुरीयपादमवतारयितुं शङ्कामाह—वृद्धैः-इति । बालानां प्रवृत्तिरिति शेषः । न- इति । विप्रलम्भका यत्र परं प्रवर्त्तयन्ति न तत्र स्वयमपि प्रवर्त्तन्त इति । स्वैरेव विप्रलब्धाः प्रवर्त्तन्त इति मन्दाशङ्कां निराकरोति-न-च इति । आत्मवञ्चनमशक्यमप्रयोजनं चेति भावः । तर्हि सर्वेऽपि पूर्वैर्विप्रलब्धाः प्रवर्त्तन्त इत्याह-तेऽपि-इति । सर्वेषामेव भावाभ्युपगमेनेयं विप्र- लम्भकमूला प्रवृत्तिः । अन्यथा संविदानोऽन्यथोपदिष्य प्रवर्त्तको विप्रलम्भकः, न चात्र तादृशः कश्चित् ; अतः प्रमाणमूलत्वमेवोपपन्नमिति भावः । पुनः शङ्कते—इदं प्रथमः-इति । विप्रलि- प्सातिशयेन हि स्वयमप्यनुष्ठानोपपत्तिरिति भावः । तदतिशयप्रदर्शनार्थमुक्तं-धूर्त्तः-इति । किमसाविति धूर्त्तविप्रलम्भकास्तावदुपदेशमात्रेण विप्रलभन्ते । क्वचित्तु केचिदलपायाससाध्येपु कर्मसु स्वयमनुष्ठायापीति संभाव्येत । न तु सर्वस्वदक्षिणादिसाध्ये वैदिककर्मकलापानुष्ठाने कश्चिद् प्रकाशः । काविष्टसाधनताज्ञानजननद्वारा कार्यताज्ञान एवोपक्षोणाविति फलज्ञानं न प्रवृत्तिहेतुः । न चान्य- थाऽपि निष्फले प्रवृत्तिप्रसङ्गः । वेदस्येष्टसाधनत्वस्य वा लिङ्गस्य कार्यताज्ञानहेतोरभावादिति जर- न्मीमांसकमंतं दृष्टान्त इत्यर्थः । अत्र सोपहासमाह । गुरुमतमिति । गुरोः प्रभाकरगुरोः, गुरु महद्वा मतमेतद्, न त्वस्मद्गुरोर्मतमित्यर्थः । निष्फले प्रेक्षावतां प्रवृत्तेरनुत्पादनियमात् प्रयोजनज्ञानस्य प्रवृत्तिहेतुत्वेन निष्फले कार्यत्वस्यायोग्यतया वेदेन बोधयितुमशक्यत्वात् प्रवर्त्तक- स्य कार्यत्वज्ञानस्यासम्भवात् । अत एव नेष्टज्ञानं कार्यताज्ञान एवोपक्षीणम् । अनन्यथासिद्धत्वा- दिति भावः । वृद्धैरिति । तथाच निष्फल एवान्यैः प्रतारणादाकुमारं प्रवृत्तिरिति न तत्र प्रयोजन- गवेषणमिति भावः । विप्रलिप्सुरन्यथाज्ञातमर्थमन्यथा बोधयति, भ्रान्तो वा ? । आद्ये वृद्धानामिति । प्रकाशिका । कार्यस्य साधनत्वेनैव सिद्धेरपूर्वस्येति शेषः । तथा च नापूर्वं स्वतःप्रयोजनम्, काम्यापूर्ववदिति भावः । उपहासबीजमाह । निष्फल इति । तथाचेति । प्रयोजनमिति भावः । अनन्यथासि- द्धत्वादिति । यद्यपि फलेच्छाद्वारेष्टसाधनताज्ञाने तदुपक्षीणम् । तथापि प्रवृत्तिप्रयोजकतायामपि निष्फले प्रवृत्तिरिति मतनिराकरणमात्रे तात्पर्यम् । नचैवं नित्यताभङ्गः, त्रिकालकाम्यस्तवपाठवत् मकरन्दः । तथाच तद्गत्तित्यापूर्वस्यापि न स्वतः प्रयोजनत्वमिति भावः । उपहासबीजमाह निष्फल इति । अनन्यथासिद्धत्वादिति । यद्यपि फलेच्छाद्वारेष्टसाध- नताज्ञानेऽपि तदन्यथासिद्धमित्युपपादितं प्रत्यक्षप्रकाशेऽन्यथाख्यात्यवसरे । त्रिस्त्रीस्वरसोऽप्ये- वमेव । तथापि तस्य प्रवृत्तिप्रयोजकत्वान्निष्फलेऽपि प्रवृत्तिरिति मतनिराकरणमात्रे तात्पर्यम् । न चैवं नित्यताभङ्गप्रसङ्गः । त्रिकालकाम्यस्तवपाठवत् कामनाऽवश्यम्भावादिति भावः । वृद्धतरैरिति । विप्रलब्धा इति शेषः ।