न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 133, कुल 608 में से
संदर्भ में पढ़ेंतम्, ततो नेदमनवसर एव वक्तुमुचितम् । वृद्धैर्विप्रलब्धत्वाद् वालानामिति- चेन्न । वृद्धानामपि प्रवृत्तेः । न च विप्रलम्भकाः स्वात्मानमपि विप्रलभन्ते । तेऽपि वृद्धतरैरित्येवमनादिरिति चेत् । न तर्हि विप्रलिप्सुः कश्चिदत्र, यतः प्रता- रणशङ्का स्यात् । इदं प्रथम एव कश्चिदनुष्ठायापि धूर्त्तः पराननुष्ठापयतीति बोधनी । राद्धान्तः, नास्मद्गुरोः, तस्य निष्फलोपदेशासंभवात् । तत्राप्युपात्तदुरितक्षयादिफलमस्तीति राद्धान्तः । यद्वा, गुरु श्लाघ्यं तन्मतमित्युपालम्भगर्भः, न तु गुरोर्हितोपदेशिनः कस्यचिन्मतं-त स्मादप्रस्तुतमिदानीं न वक्तव्यमिति । तस्माद् यागादिकर्तृपूजादेर्दृष्टहेतुभावादवश्यं धार्मिक इति बुद्ध्या तदाचार इत्यभ्युपगन्तव्यम् । तेन यागादेस्तदनुष्ठातृपूजादेश्चामुष्मिकं फलं सिद्धमिति रह- स्यम् । तुरीयपादमवतारयितुं शङ्कामाह—वृद्धैः-इति । बालानां प्रवृत्तिरिति शेषः । न- इति । विप्रलम्भका यत्र परं प्रवर्त्तयन्ति न तत्र स्वयमपि प्रवर्त्तन्त इति । स्वैरेव विप्रलब्धाः प्रवर्त्तन्त इति मन्दाशङ्कां निराकरोति-न-च इति । आत्मवञ्चनमशक्यमप्रयोजनं चेति भावः । तर्हि सर्वेऽपि पूर्वैर्विप्रलब्धाः प्रवर्त्तन्त इत्याह-तेऽपि-इति । सर्वेषामेव भावाभ्युपगमेनेयं विप्र- लम्भकमूला प्रवृत्तिः । अन्यथा संविदानोऽन्यथोपदिष्य प्रवर्त्तको विप्रलम्भकः, न चात्र तादृशः कश्चित् ; अतः प्रमाणमूलत्वमेवोपपन्नमिति भावः । पुनः शङ्कते—इदं प्रथमः-इति । विप्रलि- प्सातिशयेन हि स्वयमप्यनुष्ठानोपपत्तिरिति भावः । तदतिशयप्रदर्शनार्थमुक्तं-धूर्त्तः-इति । किमसाविति धूर्त्तविप्रलम्भकास्तावदुपदेशमात्रेण विप्रलभन्ते । क्वचित्तु केचिदलपायाससाध्येपु कर्मसु स्वयमनुष्ठायापीति संभाव्येत । न तु सर्वस्वदक्षिणादिसाध्ये वैदिककर्मकलापानुष्ठाने कश्चिद् प्रकाशः । काविष्टसाधनताज्ञानजननद्वारा कार्यताज्ञान एवोपक्षोणाविति फलज्ञानं न प्रवृत्तिहेतुः । न चान्य- थाऽपि निष्फले प्रवृत्तिप्रसङ्गः । वेदस्येष्टसाधनत्वस्य वा लिङ्गस्य कार्यताज्ञानहेतोरभावादिति जर- न्मीमांसकमंतं दृष्टान्त इत्यर्थः । अत्र सोपहासमाह । गुरुमतमिति । गुरोः प्रभाकरगुरोः, गुरु महद्वा मतमेतद्, न त्वस्मद्गुरोर्मतमित्यर्थः । निष्फले प्रेक्षावतां प्रवृत्तेरनुत्पादनियमात् प्रयोजनज्ञानस्य प्रवृत्तिहेतुत्वेन निष्फले कार्यत्वस्यायोग्यतया वेदेन बोधयितुमशक्यत्वात् प्रवर्त्तक- स्य कार्यत्वज्ञानस्यासम्भवात् । अत एव नेष्टज्ञानं कार्यताज्ञान एवोपक्षीणम् । अनन्यथासिद्धत्वा- दिति भावः । वृद्धैरिति । तथाच निष्फल एवान्यैः प्रतारणादाकुमारं प्रवृत्तिरिति न तत्र प्रयोजन- गवेषणमिति भावः । विप्रलिप्सुरन्यथाज्ञातमर्थमन्यथा बोधयति, भ्रान्तो वा ? । आद्ये वृद्धानामिति । प्रकाशिका । कार्यस्य साधनत्वेनैव सिद्धेरपूर्वस्येति शेषः । तथा च नापूर्वं स्वतःप्रयोजनम्, काम्यापूर्ववदिति भावः । उपहासबीजमाह । निष्फल इति । तथाचेति । प्रयोजनमिति भावः । अनन्यथासि- द्धत्वादिति । यद्यपि फलेच्छाद्वारेष्टसाधनताज्ञाने तदुपक्षीणम् । तथापि प्रवृत्तिप्रयोजकतायामपि निष्फले प्रवृत्तिरिति मतनिराकरणमात्रे तात्पर्यम् । नचैवं नित्यताभङ्गः, त्रिकालकाम्यस्तवपाठवत् मकरन्दः । तथाच तद्गत्तित्यापूर्वस्यापि न स्वतः प्रयोजनत्वमिति भावः । उपहासबीजमाह निष्फल इति । अनन्यथासिद्धत्वादिति । यद्यपि फलेच्छाद्वारेष्टसाध- नताज्ञानेऽपि तदन्यथासिद्धमित्युपपादितं प्रत्यक्षप्रकाशेऽन्यथाख्यात्यवसरे । त्रिस्त्रीस्वरसोऽप्ये- वमेव । तथापि तस्य प्रवृत्तिप्रयोजकत्वान्निष्फलेऽपि प्रवृत्तिरिति मतनिराकरणमात्रे तात्पर्यम् । न चैवं नित्यताभङ्गप्रसङ्गः । त्रिकालकाम्यस्तवपाठवत् कामनाऽवश्यम्भावादिति भावः । वृद्धतरैरिति । विप्रलब्धा इति शेषः ।