न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 136, कुल 608 में से
संदर्भ में पढ़ें१०२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ९ कारिकाव्याख्या क्षणिकत्वात्, अपेक्षितस्य कालान्तरभावित्वात् । चिरध्वस्तं फलायालं न कर्मातिशयं विना । सम्भोगो निर्विशेषाणां न भूतैः संस्कृतैरपि ॥ ९ ॥ तस्मादस्त्यतिशयः कश्चित् । ईदृशान्येवैतानि स्वहेतुबलायातानि, येन नियत भोगसाधनानीति चेत् । तदिदममीषामतीन्द्रियं रूपं सहकारिभेदो वा ? । बोधनी । एतदेव विभजते—चिरध्वस्तम् इति । फलाय कालान्तरभाविन इति शेषः । अपूर्वसि- द्धावपि तस्य प्रत्यात्मसमवायः न तु प्रतिभूतमिति कथं सिध्येदित्यत्र प्रत्यात्मनियमाद् भुक्तेरिति हेतुं व्याचष्टे—सम्भोग-इति । अपूर्वसंस्कृतेष्वपि शरीरेन्द्रियादिभूतेषु नित्यत्वविभुत्वाभ्यां सकलशरीरप्राप्तानामात्मनामपूर्वेणाविशेषितत्वे संविभज्य भोगः प्रतिनियतभोगो न सिध्येद्, दृश्यते चासौ, तस्मादात्मसमवाय्यपूर्वमिति निगदव्याख्यातत्वेन पूर्वार्धार्थं निगमयति—तस्मात्- इति । तत्र शङ्कते—ईदृशानि-इति । क्षणभङ्गुराण्यपि कर्माणि स्वकारणवशादीदृशान्येव सिद्धानि येनापूर्वजनन मन्तरेण कालान्तरभावित्वेन नियतानामेव फलानां साधनानि स्युः । तेषां कालान्तरफलानुगुणं किञ्चिद् रूपमस्तीत्यर्थः । ईदृशशब्दविवक्षितं रूपं तद्विकल्पयति-तदिद- म्-इति । न तावद् दृश्यमानं रूपं फलानुगुणं क्षणिकत्वाद् ; अतस्तदतीन्द्रियमभ्युपगन्तव्यम् । प्रकाशः । श्रयासिद्धमिति भावः । क्षणिकत्वादिति । आशुतरविनाशित्वादित्यर्थः । चिरध्वस्तमिति । फलस्य स्वर्गादेः कालान्तरभावितया न तन्नाशुविनाशिनः साक्षात्साधनत्वमिति प्रतीतसाधनत्वा- नुपपत्त्या तज्जन्यापूर्वकल्पनमित्यर्थः । अतिशयं विना चिरध्वस्तं कर्म न फलायालं समर्थमिति योजना । साक्षात्साधनत्वाभावेऽपि साधनत्वस्य फलसमयपर्यन्तस्थायिव्यापारव्याप्तत्वादिति भावः । ननु चादृष्टसिद्धावपि भूतधर्म एव तदस्त्वित्यत आह । सम्भोग इति । सम्भोगः= समीचीनो नियतो भोगो, निर्विशेषाणाम्=अदृष्टरूपविशेषरहितानामात्मनो न स्यात्, संस्कृ- तानां भूतानां साधारणत्वादित्यर्थः । अत्र स्वहेतुबलोत्पन्नस्वरूपविशेषवन्ति शरीरादीनि नियता- ऽऽत्मभोगसाधनानि सन्त्विति शङ्कते । ईदृशानीति । एतद्विकल्प्य व्याघाताभिमतसिद्धिभ्यां परिहरति । तदिदमिति । रूपं स्वरूपम्, अतीन्द्रियस्वभावत्वमित्यर्थः । सहकारिभेदोऽतीन्द्रि- प्रकाशिका एकक्षणावस्थायित्वमप्रसिद्धमित्यत आह । आशुतरेति । साक्षात्साधनत्वाभाव इति । अव्यवहितपूर्ववर्त्तित्वाभाव इत्यर्थः, चिरनष्टे दण्डे चक्रभ्रमिद्वारा घटजनके व्यभिग्रहः । न च विपक्षबाधकाभावः, स्वंस्वव्यापारान्यतरान्यव्यवहितपूर्वसत्तया एव कारणत्वात्, अन्यथा घटत्वा- वच्छिन्नं प्रति रासभस्य कदाचित् पूर्वसत्तानियमेन कारणत्वापातात् । केचित्तु कार्यकादाचित्कत्वनि- यामकत्वेन कारणकल्पना तच्चान्यव्यवहितपूर्ववर्त्तिनैव नियम्यते, अन्यथा पूर्वमपि स्वोत्पत्तेः कार्यस्य कालसम्बन्धापत्तिरित्याहुः । तदयुक्तम् । तथासति योग्यस्य व्यापारद्वाराप्यकारणत्वापत्तेः । तस्मात् कादाचित्कत्वं कारणमात्रनियम्यं स्वोत्पत्तिपूर्वमनुत्पत्तौ त्वव्यवहितकारणव्यक्त्यभाव एव प्रयोजको नैतावता कारणमात्रेऽतीते व्यापारकल्पनमिति ॥ ९ ॥ मकरन्दः । एकक्षणमात्रस्थायित्वमसिद्धमित्यत आह । आशुतरेति । फलसमयेति । यद्यपि चिरध्वस्तकारणत्ववादिनः क्वचिदपि व्यापाराप्रसिद्धेर्व्यतिरेक्यन्तरासिद्धा, तथापि चिरातीताद्दण्डा- दिना घटाद्यजननात् परोऽपि तथाऽङ्गीकारयितव्य इति स्वमतावष्टम्मेनोक्तमिदम् ॥ १ ॥ टिप्पणी । यापूर्वस्य स्वतः प्रयोजनत्वाभावे नित्यापूर्वस्यापि तत्त्वस्यायुक्तत्वादित्यर्थः ॥ ८-९ ॥