न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 139, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १०५ तु जायते, तत्र न दृष्टवैगुण्यमुपलभामहे । नापि दृष्टसाङ्गुण्येऽदृष्टवैगुण्यं सम्भावनीयम्, तस्यैतावन्मात्रार्थत्वात् । अन्यथा कर्मण्यपि विभागः कदाचिन्न बोधनी । त्तिमाशङ्कयाह—तत्र—इति । एतावन्मात्रार्थत्वादिति । दृष्टकारणसमवधानमात्रार्थत्वा- ददृष्टस्येति । एतदेव कुत इत्यत आह—अन्यथा—इति । यदि दृष्टकारणसाङ्गुण्यातिरेकेणाह- प्रकाशः । कार्याभावव्याप्याभावप्रतियोगित्वं कारणतदवच्छेदकोभयसाधारणमिति नापसिद्धान्ताप्रसिद्धी । अर्थापत्तौ दृष्टादृष्टान्यतरवैगुण्येनान्यथोपपत्तिं निराकरोति । तत्रेति । दाहकोष्णस्पर्शस्य पूर्ववत् सत्त्वादित्यर्थः । न च मन्त्रादिना स एव नाश्यते, पुरुषान्तरेणौष्ण्यानुभवादिति भा- वः । तस्येति । अदृष्टस्य दृष्टसाकल्यमात्रार्थत्वादित्यर्थः । ननु परमाणुकर्मणि, अध्ययनतुल्यत्वेऽप्येकत्र फलाभावे, वन्ध्यासम्प्रयोगे चादृष्टविलम्बो दृष्टो दृष्टोपसंहारे सत्यपि । मैवम् । अदृष्टविलम्बो हि न तावन्नाशानुत्पादौ । मण्याद्यपसारणानुपदं दाहाद्यापत्तेः । अदृष्टोत्पादकस्य तत्राभावात् । अदृष्टजनकशौचाऽऽचमनादेः साधारणस्याप्यत्रान्व- यापत्तेः । अशुचेरेव च तदुत्पादे शौचे सति तदभावापत्तेः । अदृष्टाद्यन्ताभावस्य च तत्राभावात् । कदाचिद्दाहात् । दाहादिकार्यविशेषे यावद्दृष्टसमवधानेऽवश्यमदृष्टसद्भावात्तदभिप्रेत्य एतदुक्तमित्यन्ये । ननु मण्यादिना दाहप्रतिपक्षस्यादृष्टभेदस्योत्पादनाद्दाहस्याभावः स्यात् । न चान्यन्तरेणापि तस्य दाहाभावापत्तिः । प्रतिनियताग्निसাধ্যदाहप्रतिपक्षस्यैवादृष्टस्यानेन जननात् । औषधिलि- प्तकाष्ठादिषु लेपकारिपुरुषनिष्ठस्य तस्योत्पादनात् । अदृष्टविशेषार्जितप्रतिपक्षसमवधानस्य वा प्रतिबन्धकत्वम् । स च दाहाभावकल्प्यः । मैवम् । तस्योत्तेजकाभावविशिष्टमण्वजन्यत्वे निय- मेनादाहार्थिनस्तत्राप्रवृत्त्यापत्तेः । तज्जन्यत्वे तु प्रथमोपस्थितोपजीव्यत्वेन तदुत्पादकस्यैव हेतु- त्वौचित्यात् । प्रतिबन्धकाभावहेतुत्वस्य तथाप्यभ्युपगमात् । अन्यथेति । अविनश्यदवस्थकर्मण्यपीत्यर्थः । अतो यदभावात् कार्याभावस्तदह्वयादावभ्यु- प्रकाशिका । तिरिति वाच्यम् । अनित्यकारणमात्रपक्षत्वे प्रांगभावगर्भस्यैवादुष्टत्वात् । इदञ्चात्मनोऽपि दृष्टान्तार्थ मुक्तम् वस्तुतोऽनुकूलत्वमवच्छेदकत्वमेव दृष्टान्तस्य धर्मत्वादिकमादाय धर्मादिरेवेति ध्येयम् । अशुचेरेवेति । यद्यपि शौचाशौचयोरन्यतरसत्त्वेऽपि कस्य चिददृष्टस्योत्पत्तिर्भवत्येव, तथाप्य- दृष्टजनकत्वमेव तत्र नास्ति, न चोत्तजकाभावसहितमणिरैव तथा, तस्यादृष्टजनकत्वे मानाभावादित्येव दूषणम् । कचिददृष्टस्य साक्षात्प्रतीतिप्रतिबन्धकत्वं यदि सिद्धं तदान्यत्रापि तथैव कल्प्यते क्लृप्त- जातीयत्वादित्यरुचिं विभावयति अन्य इति । लेपेति । स्वयमौषधलिप्तकाष्ठस्थले चौषधलेपकारि पुरुषसमवेतमेवादृष्टमिति भावः । तज्जन्यत्वे त्विति । वस्तुतस्तस्य जनकत्वे मानाभाव एवेत्युक्तम् । मकरन्दः । प्रसिद्धिरित्युभयानुगतमाह । कार्येति । व्याप्तिश्च कालिकी । न च प्रागभावगर्भतया नित्यशक्ता- वव्याप्तिः । अनित्यकारणमात्रपक्षत्वे तथाप्यदोषात् । लेपेति । दैववशादौषधलेपादौ यदादृष्ट- टिप्पणी । नापसिद्धान्ताप्रसिद्धी इति । कारणतावच्छेदकतारूपत्वेऽदृष्टस्यातथात्वाद् दृष्टान्ताप्रसिद्धिः। कारणतारूपत्वे शक्तेरतथात्वाभ्युपगमादपसिद्धान्तः । ननु परमाणुकर्म्मणीति । इतरस- कलकारणे सत्यपि परमाणुक्रियायाः प्रलयादौ विलम्बे । अध्ययनतुल्यत्वेऽपीति । शिष्ययो- रिति शेषः । वन्ध्यासम्प्रयोगे चेति । फलाभाव इत्यनुपज्यते । हेतुत्वौचित्त्वादिति । नचेष्टापत्तिः, 'नच प्रतिबन्धके'त्यादिना मूल एव निराकरिष्यमाणत्वात् । तथाप्यभ्युप- १४ न्या० कु०