न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 148, कुल 608 में से
संदर्भ में पढ़ें११४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १० कारिकाव्याख्यायां — प्रकाशः । द्विशिष्टाभावव्यवहारः, यतो यद्व्यवहारस्तदभावात्तदभावव्यवहारस्योचितत्वात् । अत एव यत्र यस्य सम्बन्धः स एव तत्र तस्य वैशिष्ट्यमिति नाननुगमः । तदिह प्रतिबन्धकोत्तम्भकाभावयोः सम्ब- न्धाभावः प्रत्येकाभावव्यापकोऽनुगतो दाहादिहेतुः, सर्वत्र प्रतिबन्धकोत्तम्भकाभावयोः सम्बन्धो नास्तीति प्रतीतेः । न चैवं प्रतिबन्धकोत्तम्भकाभावौ यत्र तत्रापि दाहापत्तिः, अभावाधिकरण- योरतिरिक्तसम्बन्धाभावादिति वाच्यम् । तदभावेऽपि स्वरूपसम्बन्धस्य भावात् । अथ तदुभय स्वरूपस्वरूपसम्बन्धाभावस्य हेतुत्वे तदुभयस्वरूपाभाव उत्तम्भककाल एवेत्युत्तम्भकसत्त्व एव दाहः स्यात् । प्रतिबन्धकाभावोत्तेजकयोरेव तदुभयस्वरूपाभावरूपत्वादिति चेन्न। सम्बन्धान्तरं विना विशिष्टप्रत्ययजननयोग्यत्वस्य स्वरूपसम्बन्धत्वात् तदभावस्य च प्रतिबन्धकाभावे प्रति- प्रकाशिका । एव सर्वत्र प्रतीतिविषयो दाहादिकारणंचेति सम्प्रदायमतमेव रमणीयमिति । अत एवेति । लक्ष्य- स्याप्यननुगतत्वमेवेति भावः । आशयमविद्वान् शङ्कते । अथेति । आशयमाविष्करोति । योग्य- त्वस्येति । तदालिङ्गितस्वरूपद्वयस्येत्यर्थः । एवं च विशिष्टप्रतीतिविषयत्वलक्षणसम्बन्धत्वस्य मकरन्दः । भाव एव विशिष्टाभावः । तदनुगमकञ्च विशिष्टधीविषयभावत्वम् । विशिष्टधीविषयत्वस्य त्रितया- नुगतत्वेन तद्भावत्वेन तद्भावानामप्यनुगतत्वसम्भवादित्याहुः । अत एवेति । लक्ष्यस्याप्य- ननुगतत्वमिति भावः । तदभावेऽपीति । अतिरिक्तसंबन्धाभावेऽपीत्यर्थः । संबन्धान्तरं विनेति । एतत् प्रत्यक्षप्रकाशे व्याख्यातम् । अस्यातिरिक्तसंबन्धरूपत्वे अपसिद्धान्तः । तदुप- टिप्पणी । तत्रेति शेषः । अत्र केवलोऽयन्नास्तीत्यत्र तात्पर्यम् , अन्यथात्यन्ताभावप्रत्ययस्यैवाप्राप्तेः । तदिह- प्रतिबन्धकोत्तम्भकाभावयोः सम्बन्धाभाव इति । इदञ्च विशेषणविशेष्ययोः सम्बन्धस्य स्वरूपसम्बन्धरूपतास्थले, तत्र सम्बन्धत्वस्य व्यासज्यवृत्तैस्तदुभयसाधारणत्वात् । अन्यत्र सम्बन्ध- रूपवैशिष्ट्यावच्छिन्नाभाव एव तात्पर्यम् । अतिरिक्तस्य विशिष्टाभावस्योभयाभावस्य च स्वीक- र्तुरयमाशयः, अनुगताकारबुद्धेरनुगतैकविषयत्वे विषयत्वसम्बन्धस्यैकत्रैव कल्पनाल्लाघवमन्यथा- नैकस्य तत्कल्पने गौरवम् प्रतीतिलाघवञ्च वस्तुलाघवादभ्यर्हितम् , तदेकशरणत्वाद्वस्तूनाम् । अन्यथा जात्यवयविसामान्याभावादीनामप्यसिद्धिः स्यात् । एतेन प्रत्येकाद्यभाव एव विशिष्टधर्म्मिद्वित्वाद्य- वच्छिन्नप्रतियोगिताकत्वं कल्प्यं नातिरिक्तोऽभाव इति निरस्तम् । किञ्च द्वयोर्म्मध्य एकस्याभावनि- श्चयेऽपरसत्त्वानिश्चये विशिष्टाभावोभयाभावादिसंशयो न स्यात् । अतिरिक्तस्य तस्य तदभाव- स्य चानिश्चयात् । मास्तु वा संशयप्रतिबध्यप्रतिबन्धकभावानुरोधेनाभ्युपेयः सः, उभयाभावबुद्धि- प्रतिबध्यतावच्छेदकस्य वक्तुमशक्यत्वात् । प्रत्येकधर्म्मावच्छिन्नाभावबुद्धित्वेन तथात्वेऽनेकप्रतिव- ध्यत्वापत्तेः । तत्प्रतिबध्यत्वस्य प्रत्येकधर्म्मावच्छिन्नप्रतिबध्यत्वानतिरिक्तत्वे प्रत्येकधर्म्मावच्छि- न्नबुद्धौ उभयाभावबुद्ध्यनपत्तेः । प्रतियोगितासम्बन्धेनोभयविशिष्टाभावबुद्धित्वेन तथात्वे ह्यप्रसि- द्धिः । उभयाभावबुद्धेर्नियमेन भ्रमत्वापत्तिश्च । घटत्वाद्यवच्छिन्नप्रतियोगिताकत्वस्य तत्संसर्गत्वास- म्भवात् । उभयधर्म्मावच्छिन्नप्रतियोगिताकत्वस्य प्रत्येकाभावे स्वीकारे स्वीकृतमतिरिक्तं प्रतियोगि- त्वम् । विवादोऽपि तत्रैव अनुगमस्यापि च सम्भवेनाभिलषितसिद्धिश्च घटत्वपटत्वयोरेवास्त्वव- च्छेदकत्वं द्वित्वस्य नेति न वाच्यम् । प्रतियोगिकोटौ द्वित्वमनवगाह्य तादृशाभावांप्रत्ययात् । विनि- गमकाभावेन तस्याप्यभ्युपेयत्वात् । लाघवमपि तत्रैव यत्र तद्विनापि प्रतीतिर्यथा प्रमेयत्वं विनापि वह्निर्नास्तीतिबुद्धिरित्याद्युह्यम् ॥०॥ सम्बन्धान्तरं विना विशिष्टप्रत्ययजननयोग्यत्वस्य