भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 152, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 152

११८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१० कारिकाव्याख्यायां हि तदुपगृहीतानामेव व्यवहाराङ्गत्वम्। सर्वत्रोपाधिमद्व्यवहारविलोपप्रसङ्गात्। एतेन प्रतिबन्धके सत्यपि तज्जातीयान्यस्याभावसम्भवात् कार्योत्पादप्रसङ्गोऽनु- त्पादे वा ततोऽप्यधिकं किञ्चिदपेक्षणीयमस्तीति निरस्तम्। यथा हि तज्जातीये सति कार्यं जायतेऽर्थादसति न जायत इति स्थिते तद्भावेऽपि तज्जातीयान्तरा- भावान्न भवितव्यं कार्येणेति न, तथैतदपि। अनुकूलवत् प्रतिकूलेऽपि सति त- ज्जातीयान्तराभावानामकिञ्चित्करत्वादिति। यत्त्वकिञ्चित्करस्येति। तदप्यसत्। बोधनी। ऽपि बीजे सत्यङ्कुरो जायते तदभावे तु न जायते इत्यत्र व्यतिरेकादौ यदि बीजप्राग्भावो विव- क्षितः प्रध्वंसे जायेत, अथ प्रध्वंसं इतरत्र जायेतेत्यादिप्रसङ्गः, बीजाभावमात्रविवक्षायां तादात्म्या- भावेऽप्यङ्कुरानुदयप्रसङ्ग इत्यभिहिते च तादात्म्याभावव्यावृत्तस्य प्राग्भावादित्रयानुगतस्य च सं- सर्गाभावत्वस्याङ्गीकार एव परिहार इति इतरेतराभावस्य सत्त्वेऽपीत्यत्र द्वितीयव्याख्यानोक्ता- मनुपपत्तिमनुभाष्य दूषयति। एतेन-इति। प्रतिबन्धके सति कार्यं न जायते तस्मिन्नसति जायत इति प्रतिपादिते कथमनेनैतन्निरस्तमित्यत्रातिदेशमेव भावकारणवादसाम्येन विशदयति- यथा हि-इति। बीजजातीये सत्यङ्कुरोत्पत्तिरित्युक्तेऽर्थात्तदभावे तदनुत्पत्तिरिति सिद्धे एक- स्मिन् बीजे सति बीजजातीयान्तराणामभावादङ्कुराख्येन कार्येण न भवितव्यमिति न प्राप्नोति तथैतदपि। प्रतिबन्धके सति कार्यानुदयस्तदभावे सति कार्योदय इत्यत्रापि एकस्मिन् प्रतिबन्धके सति सजातीयान्तराणामभावाद् भवितव्यं कार्येणेत्येतदपि न प्राप्नोतीति। कुत इत्यत आह- अनुकूलवत्-इति। कार्यानुकूले कारणे सति यथा तज्जातीयान्तराणामभावो न तस्य कार्यं निषेधति तथा प्रतिकूलेऽपि कस्मिंश्चित् प्रतिबन्धके सति प्रतिबन्धकान्तराभावेऽपि न कार्यं वि- धत्ते अकिञ्चित्करत्वं निषेधे विधौ चेति द्रष्टव्यम्। अथ प्रतिबन्धकत्वान्यथानुपपत्तिं दूषयितुं प्रती- केनानुभाषते-यत्तु-इति। सङ्ग्रहं व्याचक्षाणो दूषयति-तदपि-इति। पूर्वार्थापत्तिसमुच्चयेऽपि सामग्रीवैकल्यं सामग्र्यन्तर्भूतानामन्यतमस्य विगमः प्रतिबन्धकः। उभयवादिसिद्धिप्रदर्शनार्थो प्रकाशः। जात्यभावेऽपि संसर्गाभावत्वरूपैकोपाधिनैव कारणत्वमित्यर्थः। न च तद् निर्वक्तुमशक्यम्। अधिकरणे प्रतियोगिनमारोप्य यत्र निषेधबुद्धिस्तत्र संसर्गाभावो, यत्र तु प्रतियोगितावच्छेदक- मारोप्य निषेधधीस्तत्र सोऽन्योन्याभाव इत्यस्मद्गुरवः। ननु प्रतिबन्धकाभावो न हेतुः। एकदण्डान्वये घटोत्पत्तिवदेकप्रतिबन्धकसत्त्वेऽपि तद- न्याभावात् कार्योत्पत्त्यापत्तेः। न हि यावत्कारणतावच्छिन्नं तावदन्वये कार्यमित्यत आह। एतेनेति। अभावकारणत्वाङ्गीकारेण। यथा बीजजातीये सत्यपि बीजान्तराणामभावादङ्कुरेण न भाव्यमित्ययुक्तं, तथैदमपीत्यर्थः। प्रतिबन्धकतावच्छिन्नप्रतियोगिताकः प्रतिबन्धक- सामान्याभावः कारणम्। स च यावद्विशेषाभावनियत इति नैकप्रतिबन्धकसत्त्वे तदन्या- भावात् कार्योत्पत्तिः। यद्वा, प्रतिबन्धकाभावत्वेन न कारणत्वम्। अन्योन्याश्रयात्। प्रकाशिका। भिचारिणोऽपि तमादाय तथासति नियतत्वापत्तेः। प्रतिबन्धकाभाव इति सति सप्तमी वह्न्यादाविति- शेषः। अधिकरण इति। यद्यप्यधिकरणे प्रतियोगी संसर्गाभावप्रतीतौ नारोप्यो न वा प्रतियोगि- तावच्छेदकमारोप्यमन्योन्याभावप्रतीतावधिकरणे किन्तु भूतलेवृत्तित्वं घटे प्रथमप्रतीतौ प्रतियोगी- न्वाधिकरणे तादात्म्येन द्वितीयप्रतीतौ, तथापि प्रतियोगिसंसर्गतादात्म्ययोरधिकरणे संसर्गविधया

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक) · पृष्ठ 152, कुल 608 में से · BharatKosha