भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 161, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 161

प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १२७ मेव कार्यविशेषोपयोगः । न च मन्त्रादीनेव सहकारिणः प्राप्य ते कार्यकारिण इति बोधनी । नाधीयेत प्रोक्षितानामेव पुरोडाशादिकार्योपयोगो नान्येषामिति न स्यादप्रोक्षितेभ्यः तेषामविशेषा- दिति । प्रोक्षणादिस्वरूपसहकृतानामेव कार्योपयोगोऽस्तु, अन्यथादृष्टकल्पनानुपपत्तेरित्याशङ्कयाह- न च-इति । सन्तु तर्हि प्रोक्षणादिप्रध्वंसादयः कालान्तरेऽप्यनुवर्त्तमानाः सहकारिण इत्याशङ्कयाह- प्रकाशः । प्रोक्षणविशिष्ट इति तस्य कारणत्वाज्ञानान्न तज्जन्यातिशयकल्पनम् । प्रोक्षिता व्रीहयोऽवघाताय कल्प- न्ते इति वाक्यशेषादिति चेत् । न । तेनाप्यतीतप्रोक्षणे व्रीहाववघातान्वयो बोध्यत इति प्रोक्षणध्वं- सस्य हेतुतापत्तेः । मैवम् । प्रोक्षणमवघातजनकं प्रमाणतस्तदर्थमुपादीयमानत्वाद् व्रीहिवत् । न च हेत्वसिद्धिः । अप्रोक्षितेऽवघातासम्भवादिति भावः । एतावता तज्जन्यव्यापारमात्रसिद्धावपि न संस्कारः सिद्ध्यति, ध्वंसेनैवोपपत्तेरित्याशङ्कय प्रकाशिका । नन्विति । तथा च न प्रोक्षणस्यावघातजनकत्वमिति न व्यापारकल्पनेति भावः । प्रमाणत इति । अवघातोद्देश्यकप्रमाणमूलकोपादानविषयत्वादित्यर्थः । ननु प्रमाणमिदमेवान्यद्वा नाद्यः, अन्योन्याश्रयात् । नान्त्यः, तदभावात् , भावे वा तेनैव सिद्धसाधनादिति चेत् । न । "दर्शपू- र्णमासाभ्यां यजेत् स्वर्गकाम" इत्यधिकारविधिना निरपेक्षेण तयोः कर्त्तव्यतायां बोधितायामिति- कर्त्तव्यताकाङ्क्षायां व्रीहीनित्यादिविधिप्रवृत्तिः, तेन चोपस्थितस्वावघातद्वारा 'प्रोक्षणस्य परमापूर्व- जनकत्वबोधनात् संसर्गविधया च जनकत्वमवघातं प्रति प्रोक्षणस्य शब्देन बोधितमिति न तत्प्र- कारकानुमाने सिद्धसाधनमित्याशयात् । वस्तुतो व्यक्तिवचनन्यायेन व्रीहेरवघातकारणत्वे बोध्यमा- नउत्सर्गसहकारेण प्रोक्षणस्य विशेषणत्वं बोध्यत इति प्रोक्षणस्यावघातकारणत्वे प्रमाणं तदुक्तं अप्रो- मकरन्दः । त्वेनातिशयकल्पनमिति भावः ॥ प्रमाणत इति ॥ प्रमाणमूलकावघातोद्देश्यकोपादानविषयत्वादि- त्यर्थः । ननु प्रमाणमिदमेव तदुपादानहेतुरन्यद्वा ? । नाद्यः । हेतुज्ञाने सत्येतत्प्रमाणप्रवृत्तिरेतत्प्रमा- णप्रवृत्तौ च तद्धितहेतुज्ञानमित्यन्योन्याश्रयात् । नापरः। तदसत्त्वात् । सत्त्वे वा तन्न साक्षादुपादा- नहेतुः । प्रवृत्तेर्ज्ञानजन्यत्वात् । किन्तु प्रोक्षणमवघातजनकमिति ज्ञानद्वारा । तथा च सिद्धसाधन- मिति । अत्र वदन्ति । प्रकरणादिसहकृतवेदस्यैवावघातजनकत्वबोधकत्वमिति । सिद्धान्तानुसारा- देतदुक्तम् । संसर्गविधया च ततस्तद्धेतुत्वावगम इति तत्प्रकारकबुद्ध्यभावान्न सिद्धसाधनावकाशः । शब्दादेरपि परं प्रति लिङ्गविधया प्रयोगाच्चेति । वस्तुतो व्यक्तिवचनन्यायेनावघाते प्रोक्षितव्रीहेरन्वये प्रोक्षणस्य बाधकं विना विशेषणत्वं, नोपलक्षणत्वमिति । एतदभिप्रायेणाह । अप्रोक्षित इति । टिप्पणी । तथापीत्यर्थः । एकस्य एकस्यैवेत्यर्थः । द्वयं प्रोक्षणावघातौ । सम्पन्नमिति शेषः । तदेव विवृणोति । यत्रेति । न तु प्रोक्षणविशिष्टेति । अवघात इति शेषः । तस्य कारणत्वाज्ञानान्न तज्जन्याति- शयकल्पनमिति । तस्य प्रोक्षणस्येत्यर्थः । प्रोक्षणविशिष्टेऽवघातबोधेऽप्रोक्षितानवघातप्रोक्षितावघाता- भ्यामन्वयव्यतिरेकाभ्यां प्रोक्षणोवघातजनकताज्ञानं स्यात्तदेव नेति भावः । कारणत्वानुपपत्त्यैव त- त्कल्पनादिति भावः । वाक्यशेषादिति चेन्नेति । शङ्कानिवर्त्तकं वाक्यं वाक्यशेषः । शङ्का ह्यत्र व्रीहिन् प्रोक्षति व्रीहिनवहन्त्यादित्यत्र किं व्रीहिः प्रोक्षितव्यः अवघातोऽपि कर्तव्यः । किं प्रोक्षितव्री- हिरवहन्तव्य इति । अतीतप्रोक्षण इति । प्रोक्षणध्वंसविशिष्ट इत्यर्थः । ते=व्रीहयः ।