न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 163, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १२६ इति कुतः । अपूर्वस्वभावादिति चेत्तुल्यमिदमिहापि । तावतापि तत्प्र- ध्वंसो न विनश्यतीति विशेषः । बोधनी । स्यापि भविष्यतीति शङ्कोत्तराभ्यामाह-अपूर्व-इति । तावता-इति । परिमितफलोत्पादकत्वाभ्यु- पगमे नामान्तरेणापूर्वमेवाङ्गीकृतं स्यादित्याशङ्क्य फलविनाश्यत्वाविनाश्यत्वाभ्यां विशेषोऽस्तीत्याह- तावता-इति ॥ प्रकाशः । तत्स्वर्गजनकयागव्यापारवान् स्यात् , तत्स्वर्गाधारः स्यादित्यापादनार्थत्वात् । अपूर्वेति । प्रति- नियतकालावच्छिन्नस्वर्गजनकस्वभावत्वादित्यर्थः । तुल्यमिति । तर्हि तद्ध्वंसस्यापि स एव प्रकाशिका । सतीति च सत्यन्तार्थः । अन्यथैकस्मिन्नपूर्वे जनितफले चैत्रस्य नष्टे सति चैत्रस्यैव स्वर्गजनकेऽ- पूर्वान्तरेऽजनिफले तिष्ठति व्यभिचारापत्तेः । अजनितफलेऽपूर्वे नष्टे सति व्यभिचार इत्युत्तर- दलम् । स्वर्गान्तरजनकव्यापारान्तरवति स्वर्गपूर्वकाले व्यभिचार इति तदिति । सुखप्राप्त्यनन्तरं मे राज्यं भूयादिति कामनाकृतप्रयागस्नानजन्यापूर्वेण सुखजनने कृते व्यभिचार इति यागेति । मकरन्दः । पूर्वकाले व्यभिचारादाह । तदिति । तथा च फलोपहितयागव्यापारस्य यावत् सत्त्वं फलोपपा- दकत्वमिति नियमेन फलानन्त्यापत्तिरिति तात्पर्यम् । अन्यस्वर्गाधारत्वेनेष्टापत्तिवारणायापाद्ये तदिति । तद्व्यापारजन्यस्वर्गाधारः स्यादित्यर्थः । आद्यस्वर्गोत्तरतत्स्वर्गाधारकालो दृष्टान्तः । टिप्पणी । क्तप्रत्ययस्य भूतार्थकत्वात् प्रोक्षणध्वंसस्य हेतुतापत्तेरिति । प्रोक्षणध्वंसविशिष्टेऽवघातान्वये तेन सहान्वयव्यतिरेकाभ्यां ध्वंसस्यैव कारणत्वप्रतीतेः । प्रमाणतस्तदर्थमुपादीयमानत्वादिति [पृ. १२७] । अवघातोद्देश्यकप्रमाणमूलकतदर्थोपादानविषयत्वादित्यर्थः । नन्ववघातार्थप्रोक्षणप्रवृत्तेर्मू- लभूतं किं प्रमाणम् ? उच्यते "व्रीहीन् प्रोक्षति" 'व्रीहिनवहन्त्यात्" इति वाक्यद्वयम्, प्रोक्षिता व्रीह योऽवघाताय कल्पन्त इति वाक्यशेष एव वा । तथा हि व्यक्तिवचनन्यायेनोच्चवचनाभ्यां यत्र प्रो- क्षण तन्नावघाते बोधित एवं वाक्यशेषाच्च प्रोक्षिते तद्बोधिते प्रोक्षणेऽवघातपूर्वत्वावगतौ जनकत्वा- ग्रहेऽपि पूर्वस्य तस्यासत्त्वे परोऽवघातः कथमित्यतः प्रोक्षणगोचरावघातार्थं जनानां प्रवृत्तिः प्र- माणमूलिकेति भावः । अवघातासम्भवादिति । अवघातादर्शनादित्यर्थः । ननु ध्वंसव्यापार- त्वादिनामिति । इदन्तु प्रकृतमपेक्ष्य, वस्तुतः सर्वेषामेव यावत्सत्त्वं व्यापारस्य फलोत्पादक- त्वमप्रसिद्धमेवेति बोध्यम् । फलोत्पादकत्वाप्रसिद्धिरिति । तथा च व्यापारस्य यावत्सत्त्वं फलोत्पादकत्वनियमो यदि स्यात् तदैवानन्तफलप्रवाहः प्रसज्येत, तदेव नेति भावः । न च व्या- पारकालस्य फलपूर्वत्वेति । व्यापारस्य यावत्सत्त्वं फलोत्पादकत्वाभावेऽपि यावतो व्यापार- कालस्य फलपूर्वत्वमस्त्येव । न च प्रायशो व्यापारस्य फलपूर्वक्षणस्थायित्वेन तत्रैव व्यभिचारः फलो- त्पत्तिकक्षणान्यत्वेन विशेषणीयत्वादित्यनुशयेनाह । व्यापारेत्यादि । फलानन्त्येति । तथा च ध्वंसस्य व्यापारत्वे फलोत्तरकालस्यापि व्यापारकालत्वेन तस्य फलपूर्वत्वरक्षार्थं तदुत्तरं फलं स्वी- अपूर्वस्वभावादिति । अत्र स्वभावेत्युपलक्षणम् कालविशेषघटितेश्वरेच्छातोऽपि नियमः स्यादेव । एवं यज्ञानां कालविशेषावच्छिन्नफलान्वयित्वेनेच्छाविषयतया तदिच्छाजन्यत्वमपि निया- मकं स्यादेवदुभयमपि ध्वंसपक्षेऽपि तुल्यमेवेति । तुल्यमिति । इदम् = स्वभाववर्णनम् । इहापि। ध्वंसव्यापारत्वपक्षेऽपि । तावतापि = फलमुत्पाद्यापि । न विनश्यति = अपूर्वं तु विनश्यतीति शेषः । १७ न्या० कु०