न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 173, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १३६ बोधनी । तेन संस्कारानाधारत्वेऽपि क्रियाफलजलसंयोगभाजां व्रीहीणां कर्मत्वोपपत्तिः, नाप्यनीप्सितकर्मत्वम्, आग्नेयाद्यपूर्वेषु उपयोक्ष्यमाणत्वादित्यर्थः । प्रकाशः । न जलसंयोगावच्छिन्नक्रियाविशेषः प्रोक्षणमिति कथं तदेकदेशस्य तत्साध्यतान्वय इति वाच्यम् । संयोगस्योपलक्षणत्वेनापदार्थत्वात् । अन्यथा यत्र नाधेयशक्तिः सक्तून् प्रोक्षतीत्यादौ, तत्र का गतिः । वस्तुतो ज्ञानविषययोरिव व्रीहिपुरुषसंस्कारयोः स्वरूपमेव साक्षात्सम्बन्धो, न तु सम- वाय इति भावः ॥ प्रकाशिका । प्रसङ्ग इत्यपि प्रतिभाति । वस्तुत इति । तथा च न परम्परासम्बन्धकल्पनागौरवमपीति भावः । न चैवमदृष्टान्तरस्यापि कपालेन साक्षात् सम्बन्धे प्रत्यासत्तितयाऽऽत्मसंयोगकारणत्वस्वीकारो मकरन्दः । तथा च प्रकृताववघातविशेषे तस्य न विरोधित्वं नियमतस्तदनन्तरमेव तद्भावादिति भावः । सं- योगस्येति । ननु फलस्योपलक्षणत्वे तत्तद्व्यापारमात्रस्यैव धात्वर्थत्वे त्यजिगम्योः पर्यायताऽऽ- पत्तिः । अवच्छेदकीभूतफलयोर्विभागसंयोगयोर्धात्वर्थाप्रवेशे स्पन्दमात्रस्यैव धात्वर्थत्वादिति चेन्न । व्यापारे ह्युपलक्षणीभूतस्यापि फलस्य प्रतीतौ विशेषणत्वमेव, इष्टसाधनताविधिपक्षे क्रियोपलक्षण- स्यापीष्टस्य ज्ञानविशेषणतावत् । तदत्र फलविशिष्टो व्यापारो यदि वाच्यस्तदा शब्दात् फलविशि- ष्टव्यापारप्रतीतिः । अपरथा फलोपलक्षितव्यापारधीरित्यभयथाऽपि फलांशेऽपि शक्तेः क प्रतीत्य- विशेषो येन पर्यायता । विशेषणत्वे प्रकृते कर्मत्वानुपपत्तिरिति । वस्तुतस्तु त्यजेः स्पन्दमात्रं शक्यं, गमेः स्पन्दविशेष इति चिन्तामणिश्वरसात् स्पन्दत्वगमनत्वयोर्भेदे पर्यायत्वशङ्काऽपि न । गमनत्वं कर्मत्वव्याप्यसामान्यमिति लीलावतीस्वरसोऽपि तथा । अन्यथा उत्क्षेपणादेरपि गमनत्वे विभागव्याघातादिति । वस्तुत इति । तथा च परम्परासम्बन्धगौरवमपि नेति भावः । न चैवं- मदृष्टान्तरस्यापि तथात्वे अदृष्टवदात्मसंयोगो हेतुरिति न स्यादिति वाच्यम् । प्रोक्षणानन्तरं टिप्पणी । गोत्पादकफलभावनाया एव प्रतीतेरन्यत्रापि विध्यपेक्षितत्वमपूर्वस्यैवेति तस्यात्मनिष्ठत्वे व्रीहिपदो त्तरं द्वितीयानुपपत्तेरिति भावः । तद्व्युत्पत्तेरिति । विध्यपेक्षितफलस्य द्वितीयार्थत्वबोधकशास्त्र- स्याभावादित्यर्थः । संयोगस्यापि विध्यपेक्षितत्वादिति । विध्यपेक्षितत्वञ्च विधिविषयक्रिया जन्यत्वं मीमांसकनये फलभावनाया एव विध्यर्थत्वेन तस्य विधिवाक्यजज्ञानविषयत्वे विधिविषय- त्वमस्त्येवेति संयोगस्य विध्यनापेक्षितत्वे व्रीहिमुद्दिश्य भूम्यादावपि जलादिसेकेनापूर्वोत्पादाद् व्रीहौ जलसंयोगकरणस्य वैफल्यापत्तेरिति । तत्साध्यतान्वय इति । तत्साध्यतेति यदुक्तं तदुत्तरमान- सबोधाभिप्रायेण, शाब्दे तु द्वितीयार्थस्य धात्वर्थे एवान्वयेन साधनत्वस्यैव प्रतीयमानत्वादिति बो- ध्यम् । अपदार्थत्वादिति । संयोगादिफलानवच्छिन्नव्यापारस्य धात्वर्थत्वे त्यजिगम्यादीनां पर्या- यता स्यादिति वाच्यम् । त्यजेः स्पन्दमात्रं शक्यं गमेः स्पन्दविशेष इति चिन्तामणिकारलेखात् , वि भिज्ञयोः स्पन्दनत्वगमनत्वयोः फलानवच्छिन्नयोरुभयत्र शक्यतावच्छेदकमिति न पर्यायताप्रसङ्गः, अन्यथा फलस्य विशेषणत्व इत्यर्थः । वस्तुतो ज्ञानविषययोरिति । ज्ञानविषययोरिव व्रीहि- पुरुषसंस्कारयोरपि साक्षादेव सम्बन्ध, एवञ्च परम्परासम्बन्धकल्पनमपि नास्माकम्, अस्तु वि- ध्यपेक्षितफलमेव द्वितीयार्थः, संयोगादिविशेषितव्यापारोऽपि धात्वर्थः, तथापि न किमप्यनुपपन्नमि- त्याह । वस्तुतित्वस्वरूपमेव साक्षात्सम्बन्ध इति । न चैवमदृष्टान्तरस्यापि फलेन साक्षादेव