न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 188, कुल 608 में से
संदर्भ में पढ़ें१५४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १३ कारिकाव्याख्यायां प्रकाशिका । गिज्येष्ठावधिकप्रतियोग्यनन्तरोत्पत्तिकपरत्वासमानकालीनत्वात् प्रागभावस्याव्याप्तिरित्याश्रयेति । अत्यन्ताभावान्योऽन्याभावयोरतिव्याप्तिरिति कादाचित्कपदम् । अभावपदं च संपातायातम् कादा- चित्कभावस्य पूर्वविशेषणनिरस्ततया व्यावर्तनीयाभावात् । न च महाप्रलयाव्यवहितप्राक्कालिकक- र्मप्रागभावाव्याप्तिः तद्व्यापककालावधिकपरत्वाप्रसिद्धेरिति वाच्यम् । तदनभ्युपगन्तृमतेनैवास्य लक्षणत्वात् । ननु सर्गाद्यकालीनघटप्रागभावाव्याप्तिः, तत्कालव्यापकं हि द्रव्यं नित्यं वा स्यात् तत् कालोत्पन्नमेव वा, न च नित्यावधिकं परत्वं क्वचित् , न वा तत्कालोत्पन्नावधिकम् । आश्रयाभावात् । नित्यस्य परत्वानधिकरणत्वात्, अनित्यस्य तु ज्येष्ठस्याभावादिति चेत् । न । प्रलयकालीनपरमाणु- क्रियाप्रागभावतुल्यतया ब्रह्माण्डान्तरवर्तिद्रव्यमादाय समाधानस्य सत्त्वात्। तदनभ्युपगमे ग्रन्थकृदु- क्ताव्याप्तितुल्यतयैव तदव्याप्तेरपि दोषत्वेनेष्टत्वमेव । अत एव खण्डप्रलयाव्यवहितपूर्वक्षणोत्पन्न- क्रियाप्रागभावाव्याप्तिरपि न दोषः । प्रलयकालीनपरमाणुक्रियाप्रागभावतुल्यत्वादिति सम्प्रदायः । अत्र वदन्ति । नानासर्गस्थायिनोऽदृष्टस्य प्रागभावेऽव्याप्तिः, तत्र प्रतियोगिकालव्यापकस्यानित्यस्य द्रव्यस्याभावाद् । नित्यस्य च परत्वावधित्वाभावात् । किं च भावरूपे प्रागभावेऽव्याप्तिः, न च तद- लक्ष्यमेव, कारणताघटकस्य हि प्रागभावस्य लक्षणमिह प्रकृतं तथा च ध्वंसे प्रतियोग्यादेः कारणता- निर्वाहाय भावरूपस्यापि तस्य लक्ष्यत्वात् । एतेन द्रव्यप्रागभावमात्रस्यैवेदं लक्षणं, तेन नोक्तादृ- ष्टप्रागभावेऽव्याप्तिः । तस्यालक्ष्यत्वात् । यावद्द्रव्यप्रागभावसमानकालत्वं च प्रागभावसामान्यल- क्षणम् , तदुपयोगितयैव च विशेषलक्षणमपि निरुक्तम् , उक्तसामान्यलक्षणं तूक्तादृष्टप्रागभावादाव- विकलमेवेत्यपास्तम् । *ध्वंसप्रागभावात्मकभावान्याप्तेरिति । अत्र वयं ब्रूमः । प्रतियोगिसमानका- लीनत्वमात्रमत्र लक्षणे प्रविष्टमित्यदृष्टप्रागभावे लक्षणमविकलम् । न च विनश्यत्क्षणोत्पन्नद्रव्यमा- मकरन्दः । गभावान्याप्तिरित्यत उक्तमाश्रयेति । न च यावत्परत्वानामाश्रयाप्रसिद्ध्याऽसम्भव इति वाच्यम् । प्रत्येकिनिरूपिताश्रयस्यैव विवक्षितत्वात् । केचित्तु यावत्त्वमाश्रयविशेषणमेव । विशेषणस्य साव- धिकत्वेन विशिष्टे तदवधिकत्वान्वय इत्याहुः । अत्यन्तान्योन्याभावयोरप्यनादितया तथा- त्वादतिव्याप्तेराह कादाचित्केति । कादाचित्कभावस्यानादित्वानभ्युपगमेन व्यावत्त्याभावाद्- भावपदं स्वरूपाख्यानपरमित्याहुः । न च महाप्रलयपूर्वक्षणभाविकर्मादिप्रागभावाव्याप्तिः । तदा ब्रह्माण्डान्तरस्याप्यभावादिति वाच्यम् । तदनभ्युपगन्तृमतेनैवास्योक्तत्वात् । अत एव लीला- वतीप्रकाशे सिद्धान्तितमिदमेव लक्षणम् । ननु तथापि सर्गाद्यकालीनघटादिप्रागभावाव्याप्तिः । तत्र हि प्रतियोगिव्यापकं सर्गाद्यकालीनमेव स्याद् नित्यं व्योमादि वा ? तदवधिकञ्च परत्वमप्रसि- द्धम् । नित्यस्य तदवधिकत्वाभावात् । अपरावधिकपरत्वस्य चाश्रयाभावादनुत्पत्तेः । न हि नि- त्यद्रव्यं तदाश्रयः । बहुतरतपनपरिस्पन्दान्तरितजन्मत्वाभावेन तत्र तदनभ्युपगमात् । नापि कार्यद्रव्यम् । तज्ज्येष्ठस्य तदानीमभावात् । सर्गान्तरे तद्वत्त्वेऽपि तदानीमवधेरेवानुत्पन्नतया तदवधिकपरत्वानुत्पत्तेः । यदवधिकं यत्रापरत्वं तदवधिकमेव तत्र परत्वमित्यभ्युपगमादिति चेत् । मैवम् । जन्मांशस्य गुरुत्वेन नित्यद्रव्येऽपि तदभ्युपगमादित्याहुः । अवधिर्न परत्वकारणं, किन्तु तज्ज्ञानम् । तथा चानागतस्यैवावधेरीश्वरादीनां ज्ञाने सर्गान्तरद्रव्येषु तदुत्पाद इत्यप्याहुः । व- स्तुतो ब्रह्माण्डान्तरद्रव्यमादाय अत्रापि समाधिसम्भवे प्रलयकालक्रियाप्रागभाववदत्राप्यव्याप्ति- रभिप्रेतैवेति न दोषः । अत एव खण्डप्रलयपूर्वक्षणक्रियाप्रागभावान्याप्तिशङ्काऽपि न दोषायेति मन्तव्यम् । वस्तुतस्तु प्रतियोगिव्यापकत्वविवक्षायामपि क्षणिकशब्दाऽऽदिध्वंसे पूर्वोक्तन्यायेना- तिव्याप्तिरेवेति प्रतियोगिकालीनत्व एव तात्पर्यम् । परत्वाश्रयतयोरैक्यविवक्षया च नोक्ताति-