न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 19, कुल 608 में से
संदर्भ में पढ़ेंशङ्का चेदनुमाऽस्त्येव न चेच्छङ्का ततस्तराम् । व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मतः ॥ ७ ॥ परस्परविरोधे हि न प्रकारान्तरस्थितिः । नैकताऽपि विरुद्धानामुक्तिमात्रविरोधतः ॥ ८ ॥ साधर्म्यमिव वैधर्म्यं मानमेवं प्रसज्यते । अर्थापत्तिरसौ व्यक्तमिति चेत् प्रकृतं न किम् ॥ ९ ॥ सम्बन्धस्य परिच्छेदः संज्ञायाः संज्ञिना सह । प्रत्यक्षादेरसाध्यत्वादुपमानफलं विदुः ॥ १० ॥ सादृश्यस्यानिमित्तत्वान्निमित्तस्याप्रतीतितः । समयो दुर्ग्रहः पूर्वं शब्देनानुमयापि वा ॥ ११ ॥ श्रुतान्वयादनाकाङ्क्षं न वाक्यं ह्यन्यदिच्छति । पदार्थान्वयवैधुर्यात्तदाक्षिप्तेन सङ्गतिः ॥ १२ ॥ अनैकान्तः परिच्छेदे सम्भवे च न निर्णयः । आकाङ्क्षा सत्तया हेतुर्योग्यासत्तिर्बन्धना ॥ १३ ॥ निर्णीतशक्तेर्वाक्याद्धि प्रागेवार्थस्य निर्णये । व्याप्तिस्मृतिविलम्बेन लिङ्गस्यैवानुवादिता ॥ १४ ॥ व्यस्तपुंदूषणाशङ्कैः स्मारितत्वात् पदैरमी । अन्विता इति निर्णीते वेदस्यापि न तत् कृतः ॥ १५ ॥ न प्रमाणमनाप्तोक्तिर्नादृष्टे क्वचिदाप्तता । अदृश्यदृष्टौ सर्वज्ञो न च नित्यागमः क्षमः ॥ १६ ॥ न चासौ क्वचिदेकान्तः सत्त्वस्यापि प्रवेदनात् । निरञ्जनाऽवबोधार्थो न च सन्नपि तत्परः ॥ १७ ॥ हेत्वभावे फलाभावात् प्रमाणेऽसति न प्रमा । तदभावात् प्रवृत्तिर्न कर्मवादेऽप्ययं विधिः ॥ १८ ॥ अनियम्यस्य नायुक्तिर्नानियन्तोपपादकः । न मानयोर्विरोधोऽस्ति प्रसिद्धे वाऽप्यसौ समः ॥ १९ ॥ प्रतिपत्तेरपारोक्ष्यादिन्द्रियस्थानपेक्षणात् । अज्ञातकरणत्वाच्च भावावेशाच्च चेतसः ॥ २० ॥ प्रतियोगिनि सामर्थ्याद्व्यापाराद्व्यवधानतः । अक्षाश्रयत्वाद्दोषाणामिन्द्रियाणि विकल्पनात् ॥ २१ ॥ अवच्छेदग्रहाण्यैवाद्दौस्थ्ये सिद्धसाधनात् । प्राप्त्यन्तरेऽनवस्थानान्न चेदन्योऽपि दुर्घटः ॥ २२ ॥ प्रत्यक्षादिभिरेभिरेवमधरो दूरे विरोधोदयः प्रायो यन्मुखवीक्षणैकविधुरैरात्माऽपि नासाद्यते । तं सर्वानुविधेयमेकमसमस्वच्छन्दलीलोत्सवम् देवानामति देवमुद्भवदतिश्रद्धाः प्रपद्यामहे ॥ २३ ॥