न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 190, कुल 608 में से
संदर्भ में पढ़ें१५६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१३ कारिकाव्याख्यायां प्रकाश । नापि सामग्र्येकदेशत्वं कारणत्वं, कारणसमूहस्यैव सामग्रीत्वात् । उच्यते । गन्धानधिकरणका- प्रकाशिका । भावस्य केवलान्वयित्वाभ्युपगमादिति भावः । गन्धानधिकरणेति। स्नेहप्रागभावेऽव्याप्तिरिति कालपदम् । अभावपदं तु विरोधिपरं तत्प्रागभावलाभाय । तत्तत्कारणतायास्तत्तत्प्रागभावघटि- तत्वात् । यत्तु भावातिव्याप्तिवारणायाभावपदं यथाश्रुतार्थमेवेति । तत्तूच्छम् । प्रकृते कारणता- निर्वचनाय प्रागभावनिर्वचनमिति ध्वंसे प्रतियोगिनः कारणत्वनिष्पत्तये भावस्यापि लक्ष्यत्वात् यदा तु विभाजकोपाधिनिर्वचनं तदा तद्व्याख्यानं समीचीनमिति । ननु गन्धानाधारसमयो नास्तीत्य- वधारितवतो मीमांसकस्य कथं प्रागभावघटितकारणताज्ञानं तदज्ञाने च कथं प्रवृत्तिः, इष्टसाधन- ताज्ञानसाध्यत्वात् प्रवृत्तेः, किञ्चैवं कारणताबोधकशब्दस्यैव महाप्रलये प्रमाणमिति तत्र विप्रति- पत्तिरपि कथं मीमांसकादेरिति चेत् । न । अनुगतप्रागभावत्वाज्ञानेऽपि तत्तत्कार्यनिरूपिततत्तत्प्रा- गभावत्वज्ञानात् तत्तत्कार्यनिरूपिततत्तत्प्रागभावव्यक्तिघटिततत्तत्कारणताज्ञानेन तत्तत्कार्या- र्थिनः प्रवृत्तेः शब्देनापि प्रतियोग्यनुगतोकृततत्तत्प्रागभावघटितकारणताया एवाभिधानात् प्राग- भावलक्षणानुगतमेवेदं स्वमते । वस्तुतः कारणत्वं स्वरूपसम्बन्धविशेषो विषयस्य ज्ञानेनैव कार्येण कारणस्य प्रतीतिसिद्धेः तज्ज्ञानमेव च प्रवृत्त्यनुकूलम् इदन्तु नियामकमात्राभिधानम् । अत एव गन्धानाधारत्वेनेव नीलानाधारत्वादिनारिप स कालो लक्षयितुं शक्य एवेति विनिगमकाभावादु- भयगर्भप्रागभावत्वघटितकारणत्वज्ञानस्य प्रवर्त्तकत्वेऽननुगम इत्यपास्तम् । नियामकानेकत्वस्या- मकरन्दः । दिति भावः । गन्धानधिकरणेति । निर्गन्धान्योन्याभावादावतिव्याप्तेराहे । कालेति । अ- भावपदञ्च घटादिवारणायेत्याहुः । तन्न । कारणत्वसामान्यलक्षणार्थं तस्य लक्ष्यतौचित्यमित्युक्त- त्वात् । तस्मात् तत्प्रतियोगिकाभावलाभार्थमभावपदम् । न हि प्रागभावसामान्यगर्भे कारणत्वं, किन्तु तत्प्रतियोगिप्रागभावावच्छिन्नसमयवृत्तित्वं तत्कारणत्वम् । तथा च तादृशकालावृत्तिस्तद- भावस्तत्प्रागभाव इति पर्यवस्यति । ननु गन्धानाधारसमयो नास्तीति निर्णयवतो मीमांसकस्येष्ट- साधनतालिङ्गककार्यताज्ञानेन प्रवृत्तिदर्शनान्नैतत्प्रागभावगर्भं कारणत्वम् । किञ्च, कारणत्वबोधक- शब्दादिरेवैवं महाप्रलयकाले प्रमाणं स्यात् । तस्य तद्घटितत्वात् । तथा च तदनभ्युपगमोऽपि तस्य व्याहन्येतेति चेत् । मैवम् । विशेषतो बाधावतारेऽपि सामान्यतस्तस्य तद्ग्रहाभ्युपगमादि- त्येके । वस्तुत इदं कारणत्वं न प्रवृत्त्यनुकूलम् । अनन्यथासिद्धिघटितत्वेन गुरुत्वात् । तथा च स्वमतेन लक्ष्यतावच्छेदकतया निरुक्तं, वक्ष्यमाणं तदनुकूलं लाघवादिति । एतेन गन्धानाधारगर्भ- वन्नीलाधारगर्भत्वादिनारिप तन्निर्वचनात्तद्गर्भं कारणत्वमपि भिद्येत । तथा च विनिगमकाभावादु- भयगर्भैष्टसाधनताज्ञानप्रवर्त्तकतायां प्रवृत्त्यननंगम इत्यापास्तम् । अन्ये तु आकाशादिपदात् कदा- टिप्पणी । तद्वृत्तित्वस्यापि सिद्धेः, पक्षतावच्छेदकप्रागभावत्वञ्च प्रतीतिविशेषविषयाभावत्वमेवेति न परम्प- राश्रयः । प्रतीतेर्व्यावृत्तिश्च कालविशेषपुरुषविशेषादेवेति न प्रतीतिविषययोः परस्परव्यावर्त्तकत्वे ऽन्योन्याश्रय इति दिक् । गन्धानधिकरणकालावृत्तिरभाव इति । ननु गन्धान धिकरणसमयो नास्तीत्यवाधितज्ञानवतो मीमांसकस्य कथं प्रागभावघटितकारणताज्ञानं तद- ज्ञाने च कथं वृत्तिः, कारणताबोधकशब्दस्यैव प्रलये मानत्वात्कथं महाप्रलये विप्रतिपत्तिरिति चेन्न । अनुगतप्रागभावत्वाज्ञानेऽपि तत्तत्प्रागभावव्यक्तिघटितकारणताविशेषज्ञानादेव प्रवृत्तेः ।