न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 192, कुल 608 में से
संदर्भ में पढ़ें१५= व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१३ कारिकाव्याख्यायां प्रकाशः। कार्यमात्रवृत्तिजातित्वात्, घटत्ववत्। स एव सर्वमुक्तिकालः। अन्यथासिद्धिश्च पञ्चधा। येन सहैवः प्रकाशिका। स्ता। घटत्ववदिति। युगपत् सर्वेश्च ब्रह्माण्डप्रलयपक्ष घटत्वं दृष्टान्तः। अन्यथा तु चैत्रत्वादिकं दृष्टान्त इति ध्येयम्। ननु गन्धानधिकरणकालसिद्धावपि तद्वृत्तित्वं प्रागभावस्य कथं ग्राह्यं प्रत्य- क्षशब्दयोरभावात्, अनुमानस्य च साध्यप्रसिद्धिमन्तरेणाप्रवृत्तेरिति चेत् न, प्रागभावत्वावच्छिन्नो गन्धानधिकरणकालावृत्तिः गन्धप्रागभावादिति प्रतीतिविशेष्यत्वात् गन्धवदित्यनुमानेन तद्प्र- हात् प्रतीतिविशेषविषयाभावत्वमेव च प्रागभावत्वमतो नान्योन्याश्रयावकाशः, पक्षनिर्वचने- तैत्पुरुषीय तत्कालीनलवमेव च प्रतीतेर्व्यावर्त्तकमिति न विषयप्रतीत्योंः परस्परव्यावर्त्तकत्वेनान्यो- न्याश्रयः, प्रतीतिश्चेत् प्रागभावीयेदानीं स्मृतेत्यनादितैव इयञ्च कल्पना भविष्यतीति मीमांसको- दिसाधारणप्रतीत्यनुरोधेन गन्धे च साध्यं प्रकाशोक्तानुमानसिद्धमेव गन्धे तत्तत्कालावृत्तित्वस्य तत्तत्काले गन्धानधिकरणत्वग्राहकेन तेन समानसंवित्संवेद्यतया विषयीकरणात् विपक्षबाधकं च प्रागभावस्य विनाशत्वनियम एवाविनाशे च प्रागभावत्वव्याघात इति। ननु गन्धानधिकरणकालेऽपि कर्मप्रागभावावृत्तिसन्देहेनाव्याप्तिसन्देहादलक्षणमिदमत आह स एवेति। तथा च कोऽपि प्रागभावो न तदेति नान्याप्तिरिति भावः। ननुयुगपन्नाशे मानाभावः, यावद्गन्धनाशो हि यावद्- दृष्टनाशात् कालविशेषद्वारा वाच्यः, स च सर्वनाशे साधारण एवेत्याशयात् पूर्वोक्तदोषभयेन योगार्थमपहाय रूढ्या अन्यथासिद्धपदार्थमाह। अन्यथासिद्धिश्चेति। एतन्निर्वचनञ्च निरुक्त- कारणतालक्षणानुसारेण, स्वरूपसम्बन्धात्मककारणताभ्युपगमे तु नैतदुपयोग इति मन्तव्यम्। येन सहैवेति। येन पृथगन्वयादिमताऽवच्छेदकीभूतेन सह यस्यापृथगन्वयादिमतः पूर्ववर्त्तित्वं गृह्यते तेन तदन्यथासिद्धमित्यर्थः। पृथगित्यादिविशेषणेन दण्डत्वेन न दण्डस्यान्यथासिद्धिः, अपृथ- गित्यादिविशेषणेन न दण्डेन दण्डसंयोगोऽन्यथासिद्धः। घटं प्रति अवच्छेदकीभूतेनेति विशेषणा- द्दण्डत्वस्याप्यनेनैव संग्रहे तत्संग्राहकान्यथासिद्धयन्तरवैय्यर्थ्यमिति दूषणमपास्तम्। अत्र ह्यवच्छे- मकरन्दः। स एवेति। नन्वत्र मानाभावः, युगपन्नाशे मानाभावात्। तथा च यावद्गन्धनाशानन्तर- मपि वस्त्वन्तरसत्त्वसम्भावनया तत्प्रागभावस्य गन्धानाधारत्वसंशयेन तत्कारणेऽपि तद्गर्भका- रणत्वलक्षणाऽव्याप्तिसन्देहः। एवञ्च व्यर्थविशेषणतासन्देहात्तद्धारणाय विशेषणमप्यदेयमिति। अत्राहुः। यावद्गन्धनाशो ह्यदृष्टभावात्। अन्यथा संयोगविभागयोरन्योन्यनाश्यतयाऽन्यतराव- स्थितौ सर्वमुक्त्यनुपपत्तेः। तथा च सर्वाद्दष्टाभावाद् यावत्कार्याभावो वाच्य इति युगपदेव सर्वना- श इति। कारणेतरत्वेनेत्यादिदोषभिया योगार्थमपहाय रूढमन्यथासिद्धिपदार्थमाह। अन्यथा- सिद्धिश्चेति। येन सहैवेति। ननु शब्दादिना दण्डपूर्ववर्त्तित्वज्ञानं विनापि तद्रूपपूर्ववर्त्तित्वग्रहसम्भवा- न्नियमोऽसिद्धः। न च प्रत्यक्षेणेति विशेषणीयम्। अतीन्द्रियान्यथासिद्धयव्याप्तेः। नियमाविवक्षा- यां दण्डरूपेणैव दण्डस्यान्यथासिद्ध्यापत्तेरिति चेन्न। रूपत्वमात्रस्यातिप्रसक्ततया दण्डरूपत्वेनैव पूर्ववर्त्तित्वग्रहो वाच्यः। तथा च साहित्यनियमात्। न चैवं द्रव्यत्वादेरतिप्रसकतया दण्डत्वेनैव टिप्पणो। लक्षणन्तु सहकारिवैकल्येत्यादि वक्ष्यतीति न किमप्यनुपपन्नमिति ध्येयम्। येन सहैवेति। येन पृथगन्वयादिमता अवच्छेदकीभूतेन यस्यापृथगन्वयादिमत इत्यर्थः। यथाश्रुते दण्डत्वेन दण्डोऽन्यथासिद्धः स्यात्। पृथगिति विशेषात् परमाण्वादीनीलघटादिनीलयोर्नीलत्वस्यैक्याद्