भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 196, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 196

१६२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १३ कारिकाव्याख्या प्रकाशः। गन्धं प्रति गन्धकादाचित्काभावस्य नियतपूर्ववर्तित्वकल्पनाद् गन्धं प्रति पाकजस्थले रूपप्रा- गभावादीनाम् । यत्र च जन्यपूर्वभावे ज्ञाते जनकस्य पूर्वभावो ज्ञायते, तत्र जन्येन जनकमन्य- प्रकाशिका। समवधाननियतत्वेनान्यत्रेत्याद्यभावादनेकद्रव्यत्वेऽव्याप्तिः, पूर्ववर्तिन इति पञ्चम्यर्थहेतुता- घटितत्वेनात्माश्रयः, रासभादेरप्येवमन्यथासिद्धतय। नियतपदस्य कारणतालक्षणे व्यावत्र्त्याभावेन व्यर्थत्वमित्यादीनि दूषणान्यनवकाशानि । नियतयद्धर्मविशिष्टस्यावश्यकल्प्यत्वं तदवच्छिन्नसमवधा- ननियतत्वं यद्धर्मावच्छिन्नस्येति वार्थः। तेन रूपवत्त्वेन दण्डस्य कारणत्वमित्यपि सिद्धं भवति । यथा च दण्डरूपाकाशयोरत्र न प्रवेशः, तथा पूर्वान्यथासिद्धिलक्षणद्वयनिरुक्तावेव व्याख्यातम् । न चाग्रिमान्यथासिद्धिसंग्राह्यस्य दण्डत्वस्यानयैव संग्रहात् तद्वैयर्थ्यमिति वाच्यम् । चक्षुःसंयोगका- रणत्वेऽवच्छेदकीभूतस्य चक्षुषोऽन्यथासिद्धत्वं स्यादिति भयेनावच्छेदकभिन्नत्वस्य विशेषणतया दण्डत्वस्यैतद्बहिर्भावात् । नन्ववश्यक्लृप्यत्वं नियतपूर्ववर्तित्वमात्रेण कारणतया वा, नाद्यः, गन्धं प्रति रूपप्रागभावस्य तथात्वेन तत्सहभूतस्य गन्धप्रांगभावस्यान्यथासिद्धापत्तेः । नान्त्यः, आत्माश्रयादिति चेत् । न । अवध्यवधिमद्भावलक्षणसम्बन्धावच्छिन्नत्वेनावश्यकल्प्यत्व- स्य विवक्षितत्वात् । न च तदेव कारणत्वमिति वाच्यम् । बीजादङ्कुरोत्पत्तिरिति प्रतीतिबलेनोत्पत्ते- रपि सावधिकतया तस्याश्चाहेतुकतया तादृशसम्बन्धस्य कारणताभिन्नत्वात् । न च कार्यकारणयोस्ता- दृशसम्बन्धे मानाभावः प्रतीतेर्हेतुहेतुमद्भावेनैवोपपत्तेरिति वाच्यम् । उत्पत्तिनिरूपिततादृशस- म्बन्धावच्छिन्नत्वस्यैव प्रकृतनिरुक्तिप्रवेशात् । न च सहकारिणो परस्परमन्यथासिद्धिरुभयोरवश्यक- ल्प्यसमवधाननियमादिति वाच्यम् । तादृशसम्बन्धावच्छिन्नत्वेनावश्यकल्प्यत्वस्य प्रकृते विशेषण- त्वात् । गन्धकादाचित्काभावस्येति । गन्धप्रागभावस्येत्यर्थः । यत्र चेति । जन्यं नियतोत्तर- वर्त्तिनं प्रति पूर्वभावे नियते ज्ञाते तत्पूर्ववर्त्तिनो यं प्रति पूर्वभावो ज्ञायते इत्यर्थस्तेन नात्माश्रय- शङ्का, अन्यं प्रतीत्यत्र च यथा नैतत्प्रवेशस्तथा तत्रैव व्याख्यातम् । न चैवं मननव्यापारकश्रव- णत्वेन कारणत्वं न स्यादन्यथासिद्धेरिति प्रकाशविरोध इति वाच्यम् । जन्यपूर्ववर्त्तित्वग्रहमन्तरेण मकरन्दः । नामन्यथासिद्धिर्भवति । अत एव पञ्चम्या हेतुत्वाभिधानादात्माश्रय इत्यपास्तम् । पूर्ववर्त्तिन इत्यत्र पञ्चम्या अवधित्वेन तस्योक्तत्वादित्यन्ये । अत एव च रासभादेरपि यथाश्रुतान्यथासिद्धान्तर्भा- वेऽनन्यथासिद्धपदेनैव तद्वारणे नियतपदं व्यर्थमित्यपास्तम् । नन्वेवं दण्डरूपाकाशदण्डत्वाना- मप्यत्रैवान्तर्भावे तत्संग्राहकान्यथासिद्धीनामानर्थक्यम् । किंन्वावश्यकल्प्यत्वं नियतपूर्ववर्तित्वमा- त्रेण, कारणतया वा ? नाद्यः । गन्धं प्रति रूपविशेषप्रागभावस्यापि तथात्वेन तेनैव गन्धप्राग- भावाऽन्यथासिद्धापत्तेः । नान्त्यः । आत्माश्रयात् । अपि च सहकारिणां परस्परस्य परस्परेणा- न्यथासिद्धापत्तिः, द्वयोरप्यवश्यकल्प्यलघुनियतपूर्ववर्तित्वेन तत्समवधाननियतत्वात् । न च पृथगन्वयाद्यननुविधायित्वे सतीत्यपि विशेषणम् । तद्धि पृथगन्वयादिग्रहाविषयत्वं वा समनिय- तत्वं वा ? नाद्यः । रूपप्रागभावस्यापि शब्दादिना तादृशग्रहविषयत्वेन तथात्वापत्तेः । नान्त्यः । आलोकतद्रूपादेरीश्वरज्ञानादेश्चैवमपि परस्परमन्यथासिद्धापत्तेः । एतेनावश्यकल्प्यपूर्ववर्तिन एव कार्यसम्भवे तन्नियतसहभूतत्वमित्यर्थः । पञ्चमी चावधित्वे, न हेतुत्वे इत्यपास्तमिति चिन्त्यम्॥ गन्धकादाचित्काभावस्येति । गन्धप्रागभावस्येत्यर्थः । यत्र च जन्येति । जन्यजन- कत्वं वास्तवं नियतपूर्ववर्तित्वमात्रं विवक्षितमिति नात्माश्रयः । इयञ्च तत्पितृत्वेनान्यथासिद्धि- र्बोध्या । कुलालत्वेन तस्यापि हेतुत्वात् । अत्रापीदं चिन्त्यम् । पूर्वेनैवास्यान्तर्भावे वैयर्थ्यमित्यु-