न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 198, कुल 608 में से
संदर्भ में पढ़ें१६४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १३ कारिकाव्याख्यायां प्रकाशः । प्रयुक्तत्वं च न जन्यत्वं, प्रागभावस्याजन्यत्वात् । नापि जनकत्वम् , असम्भवात् । नापि व्या- पकत्वम् । शिलाशकलेऽपि तादृशाभावस्य सत्त्वेन तत्रातिव्याप्तेः । नाऽपि व्याप्यत्वम् । कार्य- संसर्गाभावमात्रस्य सहकार्याभावाव्याप्यत्वात् । शिलाशकलादौ कार्याभावे सत्यपि सहकार्याभाव- स्याऽसत्त्वात् । न च कार्यप्रागभावस्तद्व्याप्यः । निमित्तसमवायिनोः कार्यप्रागभावाभावेन तद- व्याप्तेः । उच्यते । यस्य कार्याभावव्याप्यत्वमितराभावावच्छिन्नं, तत् कारणम् । बीजेऽङ्कुरा- भावव्याप्यता न बीजत्वेनावच्छिद्यते, इतरसमवधाने सति बीजादङ्कुरसत्त्वात् । किन्त्वितराभावे प्रकाशिका । म्परया वा तद्देशाधिकरणत्वस्य विवक्षितत्वात् । न च कियत्सु घटेष्वपि रासभस्यापि नियतः सम्बन्धोऽस्त्येवेति कार्यतावच्छेदकावच्छिन्न एकजातीयः सम्बन्धो नादृष्टस्यापि द्रव्यगुणादौ तस्य- नानाजातीयतद्देशसम्बन्धादिति वाच्यम् । कारणता हि प्रतिकार्यं प्रतिकारणं च भिन्नेति तत्र तत्र कार्येऽदृष्टस्य नियतजातीयदेशसम्बन्धात् । न च कार्यत्वावच्छिन्नेऽदृष्टत्वेन कारणतायां नैकजातीयसम्बन्ध इति वाच्यम् । तस्याः कारणतायाः साक्षात्परम्परासाधारणनानाजातीय सम्बन्धमात्रघटितत्वात् । न चैसैव कारणता रासभेऽतिव्याप्तेति वाच्यम् । तस्यां कारणतायामुक्त रूपविशेषकारणताश्रयत्वस्य विशेषणत्वात् । ताश्च विशेषकारणताः कार्यत्वव्याप्यधर्मनिरूपितत्वे सत्यदृष्टत्वव्याप्यधर्मनिरूपितत्वेनानुगमनीया इति न तद्घटितसामान्यकारणतानुगम इति दिक् । यस्य कार्याभावेति । यस्यावध्यवधिमद्भावलक्षणसम्बन्धावच्छिन्नकार्याभावव्याप्यता- इतरसहकार्याभावावच्छिन्ना तदवच्छिन्नं कारणमित्यर्थः । तेन शिलात्वेऽपि संयोगावच्छिन्नाङ्कुराभा- वव्याप्यता न शिलात्वेनावच्छिद्यते शिलायां कदाचिदङ्कुरसत्त्वादिति तत्रातिव्याप्तिः, यत्र दण्डाभा- ववत्त्वं तत्र घटाभाव इति व्याप्तावधिकरणतया दण्डाभावस्यावच्छेदकतया तदवच्छिन्ने दण्डाभाववत्त्वे ऽतिव्याप्तिः, कार्याभावव्याप्यता इतरसहकृतत्वावच्छिन्ना बीजत्वस्येति तत्रातिव्याप्तिरित्यादीनि दूषणानि न भवन्ति । न च चरमकारणे कार्याभावाभावादव्याप्तिः, चरमकारणेऽपि परामर्शादौ सति प्रतिबन्धके कार्याभावात् यत्रापि न विलम्बः परामर्शादनुमितौ, तत्रापि तज्जातीयत्वम- स्त्येव, तदेव च लक्षणम् । न चैवमपि विभागकारणे कर्म्मणि प्रतिबन्धकस्याप्यभावादसङ्गतिरिति वाच्यम् । उत्पत्तिकालावच्छिन्नस्य कर्म्मणो विभागाभावाधिकरणत्वात् । एवं च स्वासाधारणेतर- धर्म्मावच्छिन्नं यस्योक्तसम्बन्धावच्छिन्नकार्याभावव्याप्यत्वं तदवच्छिन्नं कारणमिति लक्षणवा- क्यार्थः । अन्यथासिद्धानाञ्च स्वभावत एवोक्तसम्बन्धावच्छिन्नकार्याभाव इति न तत्रातिप्रसङ्गः । अत एव तदवच्छिन्नस्य धर्मिणः कारणत्वमित्येवार्थो न तु तदवच्छेदैन कारणत्वमिति तेन न रूपवद् दण्डत्वमादायातिप्रसङ्गः । अरण्यस्थदण्डत्वं यद्यपि स्वरूपेण घटाभावव्याप्यम् , तथापि दण्डत्वमादायैव तत्र कारणता। अग्रे च बीजबीजत्वपदे बीजत्वबीजत्वपरे इति दिक् । ननु कार्य- कारणयोरवध्यवधिमद्भावसम्बन्धे मानाभावः । प्रतीतेः कार्यकारणभावेनैवोपपत्तेरित्युत्पत्ति- मकरन्दः । ऽदृष्टादेर्नियतत्वादिति वदन्ति । तन्नेदं चिन्त्यम् । कियत्सु घटेषु रासभस्याऽप्येकजातीयसम्बन्धेन देशनियतत्वादतिप्रसङ्गः । कार्यतावच्छेदकावच्छेदेनादृष्टस्याप्यतथात्वम् । द्रव्यगुणाद्यनेककार्ये एकजातीयसम्बन्धाभावादिति ॥ यस्य कार्याभावव्याप्यत्वमिति । इतराभावसहकारावच्छिन्नं तदवच्छिन्नं कारणमि- टिप्पणी । वक्षितार्थः। प्रागभावस्याजन्यत्वादिति । ध्वंसस्योत्तरभावितयात्राप्रयोजकत्वात् कार्याभावस्य तस्य जन्यत्वमपि न किञ्चित्करमतः प्रागभावस्येति प्रागभावेत्युपलक्षणमत्यन्ताभावस्येत्यपि बोध्यम् । यस्य कार्याभावव्याप्यत्वमिति । अवध्यवधिमद्भावलक्षणसम्बन्धावच्छिन्न