न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 215, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वव्यवस्थापनम् । १६१ वासनासंक्रमो नास्ति न च गत्यन्तरं स्थिरे ॥१५॥ न हि भूतानां समुदायपर्यवसितं चैतन्यम् । प्रतिदिनं तस्यान्यत्वे पूर्वपूर्व- दिवसानुभूतस्यास्मरणप्रसङ्गात् । नापि प्रत्येकपर्यवसितं, करचरणाद्यवयवापाये तदनुभूतस्य स्मरणाद्योगात् । नापि मृगमदवासनेव वस्त्रादिषु संसर्गादन्यवा- सनाऽन्यत्र संक्रामति । मात्रानुभूतस्य गर्भस्थेन भ्रूणेन स्मरणप्रसङ्गात् । न चोपा- दानोपादेयभावनियमो गतिः । स्थिरपक्षे परमाणूनां तदभावात् । खण्डावयविनं बोधनी । यिनि संक्रामति विच्छिन्नाद्यवगता च तिष्ठत्स्ववयवेष्विति । अत्राह—वासनासंक्रमः— इति । 'सर्गादेव वासनायाः संक्रमणे संक्रान्तमातृवासनेन गर्भस्थेन मात्रानुभूतस्य स्मरणप्रसङ्गः । नन्पूपादानोपादेयभावस्तु नियामिका गतिर्भविष्यति । न अवयवी नाम किञ्चिदस्ति, किन्तु प्रति- क्षणभङ्गुराः परमाणव एव तत्त्वम् । तेन पूर्वैः परमाणुभिरुत्तरेषामुपादीयमानत्वमस्ति । मातृभ्रू- णयोस्तु तदभावान्नातिप्रसङ्ग इत्याह—न च—इति । न च स्थिरपक्षे परमाणूनां नित्यत्वेनोपादेय- भावोऽस्तीत्याद्यपादस्य निगदव्याख्यातत्वाद् द्वितीयं व्याचष्टे—न हि—इति । द्वितीयव्या- ख्याने स्वाथस्यैव विवरणं द्वितीयमेवार्थान्तरेण व्याचष्टे—नापि इति । द्वितीयव्याख्याने तु द्वितीयमिदानीं व्याचष्टे—नापि—इति । तृतीयं व्याचष्टे—नापि मृगमद—इति । तुरीयं व्याच- ष्टे—न च—इति । मा भूत्परमाणूनामुपादानोपादेयभावः, अवयवावयविनोस्तु भविष्यतीत्याश- ङ्कयाह—खण्डावयविनम्—इति । न ह्यनुभवितारो विच्छिन्ना अवयवाः खण्डावयविनमार- प्रकाशः । नन्वृपादानवासनाया उपादेये संक्रमः स्यादित्यत आह । न चेति । स्थिरे=स्थिरपक्षे, परमाणू- नामनुपादेयत्वाद् विच्छिन्नकरादीनां खण्डावयविनं प्रत्यनुपादानत्वादित्यर्थः । प्रतिदिनमिति । आहारपरिणतिविशेषस्य तद्धेतोरन्यान्यत्वादित्यर्थः । ननु करे मे सुखं, पादे मे दुःखमित्यनुभावादसुभवव्यधिकरणस्य सुखादेरनभ्युपगमात् कराद्येवानुभवितृ स्यादि- त्यत आह । नापीति । कराद्यपाये तदनुभूतस्मरणापातादित्यर्थः । मात्रेति । मातृगर्भस्थयो- र्मिथः संसर्गादित्यर्थः । ननु उपादानं यदनुभवितृ तद्वासना तदुपादेये संक्रामतीति करादिवा- सना तदपगमे तदुपादेये संक्रामति, न च मातृभ्रूणयोस्तथात्वमित्यत आह— न चेति । खण्डेति । अवस्थितावयवसंयोगेभ्य एव खण्डावयव्युत्पादादित्यर्थः । न च परमाणूनामेव चैतन्यं, तद्गुणानामतीन्द्रियत्वेन ज्ञानादेरप्यतीन्द्रियत्वापत्तेः । शरीरात्वयादेश्च प्रकाशिका । स्थिरपक्षे इति । क्षणिकतपक्षे पूर्वपरमाणुपुञ्जात्तदुत्तरपरमाणुपुञ्जोत्पत्तिरिति भवत्तूपादेये उपादानवासनासंक्रमः, स्थिरपक्षे तदभावान्न स्यादित्यर्थः । विच्छिन्नेति । तथा च तत्कराव- च्छेदेनानुभूतं तदपगमे नानुभूयेतेति भावः । तद्गुणानामिति । इदमापातः, वस्तुतः मकरन्दः । अत एव नोक्तव्यभिचारोऽपीति वाच्यम् । स्वरूपदृष्टान्तासिद्धेधोरापत्तेः । अन्योन्याभावस्यात्यन्ता- भावेऽत्यन्ताभावस्यान्योन्याभावेऽवृत्तेः । सदातनत्यपि व्यर्थम् । स्वरूपयोरप्रप्रागभावध्वंसयो- रप्यव्याप्यवृत्तित्वेन प्रागभावप्रध्वंसयोरपि साध्यसत्त्वादिति चेन्मैवम् । सदातानाभाववृत्त्यभाव- विभाजकोपाधिरवादिति विवक्षितत्वात् । न चैवमपि दृष्टान्तासिद्धिः, चतुर्द्धा अभावविभागस्य, स पुनश्चतुर्दैत्यनेन करणात् । संयोगप्रागभावादेर्व्याप्यवृत्तित्वाभ्युपगमेन सदातनपदं, तदनभ्युपगमे त्वनादेयमेवेति तत्त्वम् ॥ १४ ॥ स्थिरपक्ष इति । क्षणिकतापक्षे बाल्ययुवशरीयोर: परमाणुपुलारमकतयोपादानोपादेयभावे तद्वासनासंक्रमः स्यात् । स्थिरपक्षे तदभावान्न स्यादित्यर्थः । विच्छिन्नेति । तथा च तद्वास