भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 228, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 228

१६४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १६ कारिकाव्याख्यायां नोदनाद्यागन्तुकनिबन्धनं चलनत्वं, न तु तद्विशेषमात्राधीनमिति चेत् । यदि नोदनादयः स्वभावभूतास्ततस्तद्विशेषा एव, अथास्वभावभूतास्ततः सहका- रिण एव, ततस्तानासाद्य निर्विशेषैव शिंशपा चलनस्वभावानारभते इति, तथा च कुतः क्षणिकत्वसिद्धिः ? । स्वभावभूता एवागन्तुकसहकार्यनुप्रवेशाद्भव- न्तीति चेत् । एवन्तर्हि वृक्षसामग्र्यामागन्तुकसहकार्यनुप्रवेशादेव शिंशपाऽपि जायते इति न कश्चिद्विशेषः । एवमेतत्, किन्तु शिंशपाजनकास्तरुसामग्रीमुपा- दायैव, चलनजनकास्तु न तामेव किन्तु मूर्त्तमात्रम्, तथा दर्शनादिति चेत् । बोधनी । नोदनादि-इति । यथा वृक्षसामग्रीविशेषः शिंशपासामग्री, नैवं शिंशपासामग्र्यन्तर्भूता कम्प- सामग्री, किन्तु नोदनाभिघाताद्यागन्तुकहेतुकत्वाच्चलत्वस्य शिंशपात्वातिपातेऽपि न कश्चिद्विरोध इति । एतद्विकल्प्य निराचष्टे-यदी-इति । किं नोदनादयो भवन्मतानुरोधेन शिंशपास्वभावभूता भवेयुः, अस्मन्मतानुरोधेनास्वभावभूता वा ? पूर्वत्र शिंशपाविशेषा एव नोदनादयः, अशिशपायाः शिंशपास्वभावत्वायोगात्; तत्र च पूर्वोक्तं शिंशपातुल्यत्वं तदवस्थमेव । उत्तरत्र कम्पजनने शिंशपायाः सहकारिणो नोदनादयः स्युरिति । सन्तु सहकारिणः का नो हानिरित्यत्राह-ततः- इति । निर्विशेषैव जातिभेदं व्यक्तिभेदं विनेति यावत् ; चलस्वभावान्=चलनात्मकान् स्वभा- वान् धर्मान्, चलनात्मिकाः क्रिया इत्यर्थः । पुनः शङ्कते-स्वभावभूताः-इति । स्वभावभूताः= शिंशपायाः स्वभावभूता एव नोदनादयः ते चागन्तुकनोदकादिसहकारिसंनिधानाधीनजन्मानः, ततश्चागन्तुकसहकार्यनुप्रवेशाच्चलनजननस्वभावं शिंशपान्तरं जायत इति क्षणिकत्वं सिद्ध्यति, सिद्ध्यति चाशिंशपाया अपि चलद्रूपत्वं नोदनाद्यागन्तुकसहकारिणां पलाश्यादावपि संभवादिति । तर्हि शिंशपाया अपि वृक्षातिपातः स्यादित्याह-एवं तर्हि-इति । शङ्कते-एवम्-इति । एव- मविशेषे सत्येतत्त्वदुक्तं स्यात् , किंतु विशेषोऽस्तीत्यर्थः । यथा वृक्षसामग्र्यामागन्तुकशिंश- पाबीजत्वादिसहकार्यनुप्रवेशात् शिंशपोत्पत्तिरित्येतत्सत्यं, तथाप्ययं विशेषोऽस्तीति तमेव विशे- षमाह-शिंशपा-इति । उपादायैव शिंशपा जनयन्तीति शेषः । न तामेव शिंशपासामग्री- मुपादायैव चलत्वं जनयन्ति किन्तु मूर्त्तमात्रमुपादाय, पलाशादीनामपि कम्पदर्शनात् । शिंश- पासामग्री तरुसामग्रीं न व्यभिचरति, चलसामग्री तु शिंशपासामग्रीं व्यभिचरतीति विशेष प्रकाशः। नोदनेति । नोदनादयः किं {शिंशपाविशेषा एव, तद्विशेषजनका वा ? द्वयमपि नास्ती- त्याह । यदीति । तथा च तेषां तथाभूतानामेव शिंशपान्व्यभिचारे शिंशपा वृक्षं व्यभि- चरेदिति भावः । ननु सदृशरूपेषु उपादानकारणेषु सत्सु सम्भूयमात्रकारिणो नोदनादय इत्यत आह । अथेति । भावस्य समर्थैकस्वभावत्वेऽपि कार्यकारणकरणयोः सहकारिलाभा- लाभप्रयुक्तत्वात् प्रसङ्गतद्विपर्यययोरभावे प्रतिबन्धासिद्धेरनुमानात् कुतः क्षणिकत्वमित्याह । तथा चेति । शिंशपायाः स्वभावभूता अपि नोदनादय आगन्तुकसहकार्यनुप्रवेशाज्जाय- मानाः शिंशपां विना भविष्यन्तीत्याह । स्वभावति । एवं वृक्षस्वभावभूता शिंशपाऽऽ- गन्तुकसहकारिवशेन जायमाना वृक्षं विनाऽपि स्यादिति गूढाशय आह । एवं तर्हीति । आश- यमविद्वान् शङ्कते । एवमिति । किन्विति । आगन्तुका अपि तद्व्याप्या एवेत्यर्थः । प्रकाशिका। नोदनादय इति । संयोगस्यानङ्गीकारात् सकम्पशिंशपापूर्ववर्त्तिशिंशपा नोदनपदेनोच्यते ।