न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 239, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तबके ] विभुनः कारणत्वसमर्थनम् । २०५ बाधकमिति चेत् । न । अन्वयव्यतिरेकवज्जातीयतया विपक्षे बाधकेन च विशे- षेऽनतिप्रसङ्गात् । तथा हि, कार्यं समवायिकारणवद् दृष्टमित्यदृष्टाश्रयमपि तज्जा- तीयकारणकम् , आश्रयाभावे किं प्रत्यासन्नमसमवायिकारणं स्यात् , तदभावे निमित्तमपि किमुपकुर्यात् ? तथा चानुत्पत्तिः सततोत्पत्तिर्वा सर्वत्रोत्पत्तिर्वा स्यात् । एवमपि निमित्तस्य सामर्थ्यादेव नियतदेशोत्पादे स एव देशोऽवश्या- बोधनी । व्यतिरेकवत एव कारणत्वमिति व्याप्तिः सिद्धयतीत्याह-सर्वव्यापकानाम्-इति । न-इति । रूपादिकार्यं प्रति यज्जातीयं कारणं घटाद्यन्वयव्यतिरेकवद् दृष्टं, ज्ञानादिकार्यस्यापि तज्जातीयमेव कारणमनुमीयते । तज्जातीयत्वं नाम समवायिकारणजातीयत्वं सहकारिसमवधाननिबन्धनका- रणयोगित्वं च । तत्र समवायिकारणत्वं द्रव्यस्यैव न गुणादेरिति ज्ञानादीनां द्रव्याश्रयत्वं ताव- त्सिध्यति । न चातिप्रसक्तिः, द्रव्यान्तरस्याकाशादेः सहकारिसन्निधिकृततत्कारणाभावात् , अत- स्तद्व्यतिरिक्तद्रव्यभेदस्यैव ज्ञानकारणत्वेन सिद्धिरिति तदेवोपपादयति-तथा हि-इति । तज्जा- तीयकारणकमिति=दृष्टसमवायिकारणजातीयकारणकमित्यर्थः । अनुमातव्यमिति शेषः । अस- मवायिनिमित्ताभ्यामेव कार्योत्पत्तौ किं समवायिनेत्याह-आश्रय-इति । समवायिप्रत्यासन्नं ह्यसमवायिकारणं, कथं तत्तदभावे भविष्यतीति मा भूत्समवायिवदसमवाय्यपीत्याह-तदभावे- इति । असमवायिकारणोपपादकस्य हि निमित्तत्वम् , अतस्तदभावे तदपि न स्यादिति । तथापि किमायातमित्यत्राह-तथा च-इति । कारणमात्रस्याभावे कार्यस्योत्पत्तिरेव न स्यात् , निरपेक्ष- स्यैवोत्पत्तौ तस्य कादाचित्कत्वकाचित्कत्वे अपि न स्यातामिति । तर्हि निमित्तकारणमेवास्तु मा भूतां समवाय्यसमवायिनौ तत्सामर्थ्यादेव देशकलनियतोलपत्तिर्भविष्यतीत्यत्राह-एवम्-इति । समवाय्यसमवायिनोरभावे निमित्तमपि न स्यादित्युक्तम् । एवमपि यदि निमित्तसामर्थ्यादेव निय- तदेशोत्पत्तिः कार्यस्याभ्युपगम्येत भवेदेवं, तथापि यस्मिन्देशे कार्यमुत्पद्यते स देशोऽपेक्षणीयः प्रकाशः। विभोः कारणत्वप्रसङ्ग इति व्यतिरेकोऽपि तत्प्रयोजक इत्यर्थः । अन्वयेति । रूपादिकार्यं प्रति घटाद्यन्वयव्यतिरेकवद् दृष्टं, तज्जातीयश्चात्मा ज्ञानादिकं प्रति, समवायिकारणजातीय इति यावत् । यद्वा अन्वयव्यतिरेकवति कारणे सहकारिसाकल्यासाकल्याभ्यां कार्यकारणाकरणे दृष्टे । तददृष्टाप्यन्वयव्यतिरेकवज्जातीयत्वम् । न चैवमतिप्रसङ्गः । व्योमादेर्ज्ञानासमवायित्वात् । तथात्वे चाकाशाविशेषगुणतया ज्ञानस्य श्रौत्रत्वप्रसङ्गात् । दिक्कालविशेषगुणत्वे चाप्रत्यक्षत्वप्रसङ्गः । अत एव तन्न कार्यजनने सहकारिवैकल्यमतन्त्रम् । न चैवमपि व्योमादेः कार्यमात्रे निमित्तत्वा- पत्तिः । अन्यथासिद्धत्वात् । शब्दं प्रति पूर्ववर्तित्वग्रह एवान्यकार्यं प्रति तद्ग्रहात् । अन्यं प्रति पूर्ववर्तित्वग्रह एव यस्य यं प्रति तद्ग्रहः, तदन्यथासिद्धमिति प्रागुक्तमित्यर्थः । विप- क्षेति । यदिदं कार्यमेतदाश्रयोत्पत्तिप्रयोजकजन्यं न स्यादन्यदेशं स्यात् । एवं कालेऽपीति सर्वत्रोत्पत्तिसततोत्पत्तिशब्दवाच्येन तर्केणेत्यर्थः । उभयं क्रमेण विवृणोति-तथा हीति । आश्रयाभाव इति । समवायिकारणवृत्तेरेवासमवायिकारणत्वादित्यर्थः । ननु निमित्तवति निय- तदेश एव कार्योत्पत्तिरिति किं समवायिनेत्यत आह-एवमपीति । आश्रयदेशस्यैव समवा- प्रकाशिका । भ्याह। यद्वेति । तथा च व्योमादेर्ज्ञानं प्रति निरुक्तमन्वयव्यतिरेकवज्जातीयत्वमिति भावः । अन्यं मकरन्दः । अन्वयव्यतिरेकवज्जातीयत्वमतिप्रसक्तमित्यनुशायादाह-यद्वा, अन्वयव्यतिरेकवतोति । अत एवेति । तथा च ज्ञानं प्रति व्योमादेर्न निरुक्तमन्वयव्यतिरेकवज्जातीयत्वमिति भावः । समवायिकारणवृत्तेरेवेति । स्वस्वाश्रयान्यतरसमवायिकारणवृत्तेरेवेत्यर्थः । तथा चोभया-