न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 264, कुल 608 में से
संदर्भ में पढ़ें२३० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां सनशक्तितस्त्य प्रत्यक्षा स्यात् । स्यादेतत् । प्रामाण्यग्रहे सति सर्वमेतदुपपद्यते । स च स्वतः यदि न स्याद्, न स्यादेव; परतः पक्षस्याऽनवस्थादुःस्थत्वादिति चेन्न । तद्ग्रहेऽप्यर्थसन्देहादपि सर्वस्योपपत्तेः । न चानवस्थाऽपि, प्रामाण्यस्यावश्यज्ञेयत्वानभ्युपगमात् । अन्यथा बोधनी। स्वरूपग्राहकप्रत्यक्षादेव तच्छक्तिग्रहमपेक्षते, धौहित्यलिङ्गेनापि तद्ग्रहोपपत्तेः । तथा प्रवर्त्तक- विज्ञानस्वरूपग्राहिणः प्रमाणादन्येनापि तज्जातीयत्वादिनो लिङ्गेन तत्प्रामाण्यानुमानमविरुद्धमिति । स्यादेतत्-इति । सर्वमिदं-प्रवृत्त्यादिकमिति । न इति । मा भूदनवस्थादुःस्थत्वात् परतः प्रामाण्यग्रहः । तथापि न स्वतःत्वसिद्धिः, प्रामाण्याग्रहेऽप्यर्थग्रहोपपत्तेरर्थसंदेहेऽपि च प्रवृ- त्युपपत्तेरिति । ननु प्रामाण्ये कदाचित् ज्ञातव्ये भवत्येवानवस्थेत्याशङ्क्य न तावत्फलज्ञानमाश्रि- त्येयं प्रसज्यत इत्याह-न च इति । यथा ह्यर्थे गृह्यमाणे न तद्विषयकज्ञानप्रामाण्यग्रहापेक्षा, तथा प्रवर्त्तकविज्ञानप्रामाण्ये गृह्यमाणेऽपि न तद्ग्राहिणो गुणसंवादिविज्ञानस्य प्रामाण्यग्रहापेक्षा । तेन यदा कदाचित् केनचित् प्रामाण्यं जिज्ञास्येत तदा तदन्येनागृहीतप्रामाण्येनेव गृह्यत इति नान- वस्थेति । अवश्यं ज्ञेयत्वाभ्युपगमे दोषमाह- अन्यथा इति । न तावन्मीमांसकस्यापि ज्ञानं स्वयमेव प्रामाण्यं गृह्णाति स्वस्यैवाग्रहणात् । अतः स्वग्राहिणो ज्ञाततालक्षणफलाद्यनुपपत्तिरूपा त्प्रमाणाद् गृह्णात इति वक्तव्यं, तत्र चार्थापत्तिप्रामाण्यविषयविज्ञानस्याप्यर्थान्तरेण प्रामाण्यं ग्रहीतव्यम्, एवं तस्य तस्यापीत्यनवस्था प्रसज्यत इति । ननु मा भूतफलज्ञानप्रामाण्यस्याव- श्यं ज्ञेयत्वं, मा च भूत् तत्रानवस्था, तथापि प्रमाणसाधनमाश्रित्यानवस्था प्रसज्यत इत्याह- प्रकाशः। इत्येव लिङ्गानपेक्षता । तथा सति पिपासोपशमनशक्त्यनुभवस्याप्यलैङ्गिकत्वप्रसङ्ग इत्यर्थः । सर्वमेतदिति । झटिति प्रवृत्त्यादिकमित्यर्थः । स चेति । यद्यगृहीतप्रामाण्यमेव ज्ञानं परप्रामाण्यनिश्चयकमास्थेयं, तदा व्यवसायोऽप्यगृहीतप्रामाण्य एव विषयं निश्चाययतु, किं तत्प्रा- माण्यग्रहेण । यदि च तस्याप्रामाण्यसंशयान्न तन्मात्रादर्थनिश्चयस्तर्हि प्रामाण्यानुमितेरप्रामाण्य- संशयान्न ततोऽपि प्रामाण्यनिश्चयः । ततस्तस्या अपि प्रामाण्यनिश्चयावश्यकत्वेनानवस्था । एवं लिङ्गव्याप्त्यादिज्ञानानामपि प्रामाण्यानिश्चये हेत्वाद्यसिद्धिः, तन्निश्चये चानवस्था । न हि, न लि- ङ्गादिज्ञाने प्रामाण्यसंशयोऽनुभवविरोधात्, तथा च, परिशेषात् स्वतः प्रामाण्यग्रह इत्यर्थः । तद्ग्रहेऽपीति । न तज्ज्ञानप्रामाण्यनिश्चयादेवार्थनिश्चयः, किन्तु न यत्राप्रामाण्यशङ्का करतला- दिज्ञाने, तत्र व्यवसाय एवार्थनिश्चय इति तत एव निष्कम्पप्रवृत्त्युपपत्तिरिति न प्रामाण्या- नुमितिलिङ्गादिज्ञानानामपि प्रामाण्यानुसरणमिति नानवस्थेत्यर्थः । तथाप्यनभ्यासद्शापन्न- ज्ञानप्रामाण्यसंशयेनार्थनिश्चयस्य प्रतिबन्धात् तत्प्रामाण्यानुसरणेऽनवस्थेत्यत आह । न चेति । अगृहीतप्रामाण्यमेव ज्ञानं परप्रामाण्यं निश्चाययति, अप्रामाण्यशङ्काकलङ्काभावात् । यत्र प्रामाण्यज्ञानेऽप्यप्राण्यशङ्कया प्रामाण्यसंशयस्तत्र प्रामाण्यज्ञानप्रामाण्यनिश्चयादेव प्रामाण्य- निश्चयः । एवं, यावदप्रामाण्यशङ्कं तज्ज्ञानप्रामाण्यनिश्चयादेव तन्निश्चयः । न चैवमन- वस्था, चरमप्रामाण्यज्ञानस्य ज्ञानाभावाद्धर्मज्ञानाभावेन कोटिस्मरणाभावात् विषयान्तरसञ्चा- राद्वा प्रामाण्यसंशयानवश्यम्भावादित्यर्थः । अन्यथेति । भाट्टानां प्रामाण्यस्य ज्ञानानुमितिग्राह्यत्वे प्रकाशिका। स्वातन्त्र्येण प्रामाण्यग्रह इति प्रवर्त्तकं प्रामाण्यज्ञानं परत एवेति भावः । भट्टानामिति । इदमुप- मकरन्दः। अन्यथेतीति । प्रवृत्त्यनुपयोग्याप्यस्तीत्येव यदि प्रामाण्यमवश्यं ज्ञेयं, तदाऽस्य प्राह्यरवेऽ-