भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 298, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 298

२६४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यान] र्माध्यासेन भेदस्य पारमार्थिकत्वात् प्रत्यभिज्ञानमप्रमाणमिति न तेन बाधः ॥ बोधनी । तीव्रमन्दयोर्गकारयोर्भेदस्य वास्तवत्वेन शब्दप्रत्यभिज्ञानस्याप्रमाणत्वान्न तेनानित्यत्वानुमान- बाध इति । प्रकाशः । उच्यते । शुकशारिकामनुष्यप्रभवेषु स्त्रीपुंसतद्विशेषप्रभवेषु चेक्षुक्षीरादिमाधुर्यवत् स्फुटतरं वैजात्यमनुभूयते । न चेदभौपाधिकम् । तत्त्वं हि आनुभविकम्, औपपत्तिकं वा ? । नाद्यः । इन्द्रियासन्निकर्षेण स्त्रीपुंसतद्विशेषाननुभवेऽपि शब्दभेदप्रत्ययात् । यतः स्त्रीपुंसप्रभवत्वमनुमीयते । अन्यथाऽन्योन्याश्रयात् । स्त्रीप्रभवत्वे ज्ञाते भेदधीस्ततश्च तदनुमानात् । नान्त्यः । उपाधेरन्वयव्य- तिरेकानुविधानाभावात् । न च व्यञ्जकवायुवैजात्यं गकारगतत्वेन भासते, वायोश्च ज्ञानं तेनैव रूपेणेति वाच्यम् । गकारगतत्वे बाधकाभावात् । न चाभेदप्रत्यभिज्ञानं बाधकम् । य एव शुक- शब्दः स एव स्त्रीशब्द इत्यननुभवात् ? तथात्वे वा भेदज्ञानाभावेन वक्तृविशेषाननुमानापत्तेः । अस्ति च कोऽपि गकारस्य विशेषो यतो दिग्विशेषप्रभवत्वमनुमीयते । अव्यपदेश्यत्वेऽप्यानुभवि- कत्वात् । तस्माद् गकारादौ भेदे भासमानेऽनुगतबुद्धेर्गत्वादिकजातिः । तारत्वमपि गत्वादिव्याप्यं भिन्नम् । अनुगतव्यवहारश्च सजातीयसाक्षात्कारप्रतिबन्धकतावच्छेदकरूपानुगतादुपाधेः । तद्- ज्ञाने च तद्व्यवहारसिद्धेः । परैरपि शुकादिगकारादिव्यञ्जकवायूनां वैजात्यं वाच्यम् । तत्र यदि शुकवर्णाभिव्यञ्जकवायुत्वं गकारव्यञ्जकवायुत्वव्याप्यं, तदा शुकगकारव्यञ्जकवायौ न स्यात् । अथ व्यापकं, तदा सर्व एव गकारव्यञ्जकवायवः शुकवर्णाभिव्यञ्जकवायवः स्युरिति वायुवृत्ति- त्वेऽपि वैजात्यन्नानैव । तथापि यावद्वक्तृमेदं नित्या एव वर्णाः सन्तु, तत्प्रत्यभिज्ञाने बाधकाभावाद् । मैवम् । अस्ति हि स एवायं गकार इति प्रत्यभिज्ञानम्, अस्ति च तन्नोत्पादविनाशधीः । न चानयोरन्योन्यं विहायाऽन्यद् बाधकमस्ति । न चानयोरेकं भ्रमः । एकानन्तरं विशेषदर्शनेन अपरोत्पत्यभावा- पत्तेः । अतस्तयोरुभयं विषयभेदो वाच्यः । एकविषयत्वे विरोधेनैकोत्तरपरानुत्पादापत्तेः । एवञ्च भेदे भासमाने प्रत्यभिज्ञानस्य तज्जातीयत्वं विषयः । न चैवं तज्जातीयोऽयमिति तदाकारापत्तिः । तज्जातीयत्वविषयाया अपि बुद्धेः सोऽयमित्याकारदर्शनात् । यथा तानेव शालीनपुभुञ्जते, तानेव तित्तिरीनिति । यत्र च प्रथमं न भेदधीस्तत्र प्रत्यभिज्ञानं व्यक्त्यभेदविषयम् । तस्माद् यत्र भेदधी- स्तदितरबाधकावाध्या तत्र प्रत्यभिज्ञानमेव, न भवति, भवद्वा तज्जातीयत्वमालम्बते इत्यस्म- त्पितृचरणाः ।- प्रकाशिका । आनुभविकमिति । क्वचिदुपाधित्वमनुभवसाक्षिकं यथा कुङ्कुमारुणा तरुणीत्यत्र कुङ्कुमशब्दस्य क्वचि- दौपपत्तिकं तदन्वयव्यतिरेकानुविधानकल्पनीयम् यथा रक्तः स्फटिक इत्यत्रेत्यर्थः । स्त्रीपुंसेति । स्त्रीपुंसप्रभवेषु हि तावेवोपाधी वाच्यौ तौ च तदा नानुभूयेते इति दूरे तयोरुपाधित्वानुभव इत्य- र्थः । अस्ति चेति । न च देशविशेषवक्तृविशेषप्रयोज्यजात्योरेकत्वं नानात्वे विगमकाभावः, मकरन्दः । गिकत्वाचेत्यर्थः । आनुभविकमिति । यत्रोपाध्याश्रयसम्बन्धातथाधीस्तत्रोपाधेरानुभविकत्वं, यत्र टिप्पणी । तारत्वमपि गत्वादिव्याप्यं भिन्नमिति । परमतारेषु गकारेषु एकं तारत्वम् परगमन्दे त्वेकं भन्दत्वम् परे च तारत्वमन्दत्वे समानाधिकरणे एवेति न साङ्कर्यम् । समानाधिकरणे एव च तारत्वन्दत्वे उत्कर्षापकर्षत्वात्तदवधिनिरूपिते तत्तदवधिनिरूपितत्वविशिष्टत्वेन प्रतिनियताधि- करणवृत्तित्ताऽभ्युपेयते तथा चायमस्मात्तारो गकारोऽयमास्मान्मन्दो गकार इति प्रतीतिर्गकारमेदं